Enter your Email Address to subscribe to our newsletters

पल्लेकेले (श्रीलंकादेश:), २२ फरवरीमासः (हि.स.)। रविवासरे आयोजिते आईसीसी पुरुष: टी–20 विश्वकप 2026–इत्यस्य विशेष–अष्ट–स्पर्धायां इंग्लैंड–दलेन उत्कृष्ट–कन्दुकक्षेपण–प्रदर्शनस्य साहाय्येन श्रीलंका–दलं ५१ धावनांकै: पराजितः। पल्लेकेले–स्थिते पल्लेकेले अंताराष्ट्रिय-क्रिकेट-प्रांगणे क्रीडायामस्यां स्पर्धायां इंग्लैंड–दलेन प्रथमं बल्लेबाजी कृत्वा २० ओवरैः ९ विकेट–हानौ १४६ धावनानि अर्जितानि। प्रत्युत्तरे श्रीलङ्का–दलं १६.४ ओवर-इत्येतै: ९५ धावनांकै: एव सर्वविकेट-पतिता:।
स्टर्धायां टॉस–विजयं प्राप्य श्रीलङ्का–दलेन कन्दुकक्षेपण–निर्णयः कृतः। इंग्लैंड–दलेन प्रथमं बल्लेबाजी कृता। दलस्य प्रथम–बल्लेबाजः फिल्-साल्टः अपवादं विहाय अन्ये ताडका: दीर्घं पक्षं कर्तुं न शक्ता:। साल्टः ४० कन्दुकैः षट् चतुष्कैः द्वाभ्यां च षट्काभ्यां सह ६२ धावनानि अकरोत्। तदनन्तरं विल्-जैक्सः २१, हैरी-ब्रूकः १४, सैम-करनः ११, जोस-बटलरः ७, लियाम-डॉसनः ६, टॉम-बैंटनः ६, जैकब-बैथेलः ३ धावनानि अकुर्वन्। जैमी-ओवरटनः १० धावनांकै: तथा आदिलरशीदः १ धावनेन नाबाद-इत्येतौ आस्ताम्।
श्रीलङ्का–दलेन दुनिथ् वेलालागे ३ विकेटान् गृहीतवान्; दिलशान् मदुशांका तथा महीश् तीक्ष्णा द्वौ–द्वौ विकेटौ अलभेताम्। दुश्मंता चमीरा एकं विकेटं गृहीतवान्।
लक्ष्य–अनुसरणे श्रीलङ्का–दलेन दुर्बलं बल्लेबाजी–प्रदर्शनं कृतम्। पथुम् निसांका (०९), कामिल: मिशारा (०६), कुसल: मेंडिस (०४), दूषण-हेमंथा (०५), दुष्मंता चमीरा (०६) इत्यादयः दशाङ्कं न प्राप्नुवन्; दिलशान् मदुशांका तथा पवन् रथनायके शून्ये एव निर्गतौ।
दलस्य कृते सर्वाधिकान् धावनांकान् नायक: दासुन् शनाका अकरोत्— सः २४ कन्दुकैः ३० धावनांकान् अर्जितवान्। कामिन्दु-मेंडिसः १३, दुनिथ-वेलालागे १० तथा तीक्ष्णा नाबादः १० धावनानि अकुर्वन्।इंग्लैंड–दलेन विल-जैक्सः ३ विकेटान् गृहीतवान्; जोफ्रा-आर्चरः, लियाम-डॉसनः, आदिलरशीदः द्वौ–द्वौ विकेटौ अलभन्त; जैमी-ओवरटनः एकं विकेटं गृहीतवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता