Enter your Email Address to subscribe to our newsletters

वैश्विक बौद्ध आस्थायाः केंद्रं जातं उत्तर प्रदेशो, 2025 तमे वर्षे प्रायेण82 लक्षं पर्यटकाः प्राप्नुवन् बुद्ध भूमिम्
आगन्तुकपर्यटनक्षेत्रे बौद्धपर्यटनपरिपथा नूतनः कीर्तिमानः स्थापितः। ४.४० लक्षाधिकाः विदेशीयपर्यटकाः आगताः।
२०२२ तः २०२५ पर्यन्तं वर्षानुवर्षं बौद्धपर्यटकानां संख्या निरन्तरं वर्धिता। कुशीनगर विदेशीयपर्यटकानां प्रियतमं गन्तव्यस्थानम् अभवत्।
लखनऊ, २२ फरवरी। उत्तरप्रदेशराज्यं पुनः वैश्विकपर्यटनमानचित्रे स्वस्य दृढां उपस्थितिं प्रदर्श्य बौद्धआस्था धरोहरयोः केन्द्ररूपेण नूतनं कीर्तिमानं स्थापितवान्। वर्षे २०२५ तमे प्रदेशेन बौद्धपरिपथद्वारा विश्वस्य विविधदेशेभ्यः आगताः श्रद्धालवः पर्यटकाः च मिलित्वा प्रायः ८२ लक्षपर्यटकान् स्वागतम् अकरोत्। तेषु ४.४० लक्षाधिकाः विदेशीयपर्यटकाः आसन्। विशेषतः कुशीनगरं अन्ताराष्ट्रियबौद्धपर्यटनस्य प्रमुखाकर्षणरूपेण उदितम्, यत्र विदेशीयश्रद्धालूनां सर्वाधिकः आगमनाङ्कः अभिलेखितः।
पर्यटनसंस्कृतिमन्त्री जयवीरसिंहः अवदत् यत् उत्तरप्रदेशः अधुना वैश्विकबौद्धआस्थायाः प्रमुखकेन्द्ररूपेण प्रतिष्ठितः। विश्वस्य बौद्धधर्मानुयायिनः स्वस्य बोधियात्रायाः आरम्भं उत्तरप्रदेशात् कर्तुं प्राधान्यं ददति, येन राज्ये आगन्तुकपर्यटनस्य उल्लेखनीयवृद्धिः दृश्यते। सारनाथ, कपिलवस्तु, श्रावस्ती, संकिसा, कौशाम्बी तथा कुशीनगर इत्येतानि भगवतः बुद्धस्य जीवनसन्देशयोः सम्बद्धानि पवित्रस्थानानि सन्ति, येषां दर्शनं श्रद्धालवः जीवनस्य पवित्रयात्रारूपेण मन्यन्ते।
मुख्यमन्त्रिणो योगिनः आदित्यनाथस्य मार्गदर्शनेन पर्यटनक्षेत्रं नित्यं नवोन्नतिं प्राप्नोति। २०२५ वर्षे एतेषु षट्सु पवित्रबौद्धस्थलेषु प्रायः ८२ लक्षपर्यटकाः आगताः, तेषु ४.४० लक्षाधिकाः विदेशीयाः आसन्। २०२४ वर्षे ६१ लक्षाधिकाः पर्यटकाः, तेषु ३.५० लक्षाधिकाः विदेशीयाः। २०२३ वर्षे ४७ लक्षपर्यटकाः, तेषु २.५० लक्षाधिकाः विदेशीयाः। २०२२ वर्षे २२.४० लक्षाधिकाः पर्यटकाः, तेषु ४८ सहस्राधिकाः विदेशीयाः आसन्। एतेन स्पष्टं भवति यत् उत्तरप्रदेशस्य बौद्धपरिपथः वैश्विकआकर्षणकेन्द्ररूपेण विकसितः।
विशेषतया कुशीनगरं विदेशीयपर्यटकानां प्रथमपसंन्दरूपेण अभवत्। २०२५ वर्षे २.९० लक्षाधिकाः विदेशीयपर्यटकाः अत्र आगताः। २०२४ वर्षे २.५१ लक्षाः, २०२३ वर्षे २.१४ लक्षाः, २०२२ वर्षे ४१ सहस्राधिकाः विदेशीयाः कुशीनगरं प्राप्तवन्तः।
मन्त्री जयवीरसिंहः अवदत् यत् केन्द्रीयवित्तीयप्रस्तावे २०२६ २७ तमे सारनाथं देशस्य १५ प्रमुखपुरातात्विकस्थलेषु समावेश्य ‘प्रयोगात्मक सांस्कृतिक गन्तव्य’ रूपेण विकसितुं घोषणा कृता। अगस्तमासे प्रायः २०० सदस्यात्मकं प्रतिनिधिमण्डलं उत्तरप्रदेशं आगमिष्यति। सारनाथकुशीनगरयोः जापानीबौद्धसंस्थानानां स्थितिः भारतजापानयोः आध्यात्मिकसम्बन्धस्य प्रमाणम् अस्ति। श्रीलंका, थाइलैण्ड, म्यान्मार, कंबोडिया, लाओस, वियतनाम, दक्षिणकोरिया इत्यादिदेशेभ्यः प्रतिवर्षं बहुसंख्यकाः बौद्धपर्यटकाः आगच्छन्ति। प्रदेशस्य पर्यटनविभागः एतेषां देशानां नागरिकानां पर्यटनप्रतिनिधीनां उद्योगविशेषज्ञानां च कृते नियमितरूपेण परिचययात्राः आयोजयति, तथा च वैश्विककार्यक्रमेषु सहभागित्वेन अन्ताराष्ट्रियबौद्धपर्यटनमानचित्रे उत्तरप्रदेशस्य सुदृढां स्थितिं सुनिश्चितं करोति।
---------------
हिन्दुस्थान समाचार