मुख्यमन्त्री योगी-आदित्यनाथ: अद्य सिंगापुर–जापान–यात्रायै प्रस्थानं करिष्यति
लखनऊनगरम्, २२ फरवरीमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना परिकल्पितं उत्तरप्रदेशं “भारतस्य निर्माण–केन्द्रम् (Manufacturing Hub of India)” कर्तुं लक्ष्यीकृत्य मुख्यमन्त्री योगी-आदित्यनाथः अद्य सिंगापुर–जापानयोः चतुर्दिवसीय–विदेश–प्रवासाय प्रस
कार्यक्रम को संबोधित करते हुए सीएम योगी


लखनऊनगरम्, २२ फरवरीमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना परिकल्पितं उत्तरप्रदेशं “भारतस्य निर्माण–केन्द्रम् (Manufacturing Hub of India)” कर्तुं लक्ष्यीकृत्य मुख्यमन्त्री योगी-आदित्यनाथः अद्य सिंगापुर–जापानयोः चतुर्दिवसीय–विदेश–प्रवासाय प्रस्थानं करिष्यति। २०१७ तमे वर्षे म्यांमार–यात्रानन्तरं मुख्यमन्त्रिणः एषः प्रथमः विदेश–प्रवासः भविष्यति। प्रदेशस्य निवेश–कूटनीत्याः औद्योगिक–विस्तारस्य च दृष्ट्या एषा यात्रा अत्यन्तं महत्त्वपूर्णा इति मन्यते।

कार्यक्रमानुसारं २३–२४ फरवरीमासयोः सिंगापुरे तथा २५–२६ फरवरीमासयोः जापाने प्रवासकाले मुख्यमन्त्री त्रिंशदधिक–वैश्विक–निर्माणिनां प्रतिनिधिभिः सह निवेशः, तकनीकी–सहयोगः, औद्योगिक–विस्तारः इत्यादिषु विषयेषु संवादं करिष्यति।

अस्याः यात्रायाः विशेषता एषा यत् मुख्यमन्त्री जी–टू–बी (Government to Business) सभासु तथा राउण्ड–टेबल-गोष्ठीषु निवेशकैः सह प्रत्यक्षं संवादं करिष्यति। प्रदेशस्य औद्योगिक–मार्गचित्रम्, नीति–स्थैर्यम्, व्यापार–सम्भावनाः च विषयीकृत्य सः परिणामाभिमुखं स्पष्टं च विचार–विनिमयं करिष्यति। प्रवासी–भारतीयान्, उत्तरप्रदेश–निवासिनः, विद्यालयीय–छात्रान् अपि सम्बोधयित्वा प्रदेशस्य विकास–यात्रां प्रस्तोष्यति।

शासनस्य मतानुसारं पञ्चविंशतिः–कोटि–नागरिकाणां सामर्थ्यं उत्तरप्रदेशं उत्पादनस्य उपभोगस्य च प्रमुखं केन्द्रं करोति। विशालः श्रमबलः, विस्तीर्णः विपणिः, तीव्रगत्या विकसितं आधारभूत–संरचनं च Manufacturing Hub of India इति दृष्ट्या दृढां आधारशिलां निर्माति।

सिंगापुर–प्रवासे मुख्यमन्त्री पञ्चविंशति–निर्माणी–प्रतिनिधिभिः सह साक्षात्कारं कर्तुं निश्चितः अस्ति। तत्र डेटा–केन्द्र–संरचना, कृषि–व्यवसायः, लॉजिस्टिक्स–जालम्, स्वच्छ–ऊर्जा, सौर–ऊर्जा, आतिथ्य–उद्योगः, औद्योगिक–उद्यानानि, विमानन–क्षेत्रम्, वित्तीय–प्रौद्योगिकी (Fintech) तथा स्टार्टअप–सहयोगः इत्यादिषु विषयेषु विचार–विमर्शः भविष्यति।

जापान–प्रवासे अष्ट प्रमुख–निर्माणी–प्रतिनिधिभिः सह ऑटोमोबाइल–निवेशः, अर्धचालक–(सेमिकण्डक्टर) उद्योगः, इलेक्ट्रॉनिक्स–निर्माणम्, आपूर्ति–श्रृङ्खला–सहयोगः, हरित–हाइड्रोजनः, आतिथ्य–उद्योगः, अचल–सम्पत्ति–निवेशः च मुख्य–विषयाः भविष्यन्ति।

जी–टू–बी तथा राउण्ड–टेबल–सभासु मुख्यमन्त्री प्रदेशस्य औद्योगिक–नीतिः, भूमिबैङ्क, एक्सप्रेस–वे–जालम्, लॉजिस्टिक्स–व्यवस्था, कौशल–विकासः इत्यादीन् विषयान् निवेशकैः सह चर्चयिष्यति। शासनं आशां करोति यत् एताभिः सभाभिः निवेश–प्रस्तावानां शीघ्रता वर्धिष्यते तथा संयुक्त–परियोजनानां मार्गः प्रशस्तः भविष्यति।

शासन–प्रवक्त्रा सूचितं यत् एषा चतुर्दिवसीया यात्रा निवेश–आकर्षणस्य प्रयासः एव न, अपि तु वैश्विक–मञ्चे “ब्राण्ड–उत्तरप्रदेश” इति संकल्पनां सुदृढतया स्थापयितुं महत्त्वपूर्णं पदं वर्तते। एषः प्रवासः प्रदेशं वन–ट्रिलियन–डॉलर–अर्थव्यवस्था-दिशि अग्रे नेतुं तथा “मेक इन यूपी” संकल्पनां वैश्विकस्तरे सशक्तीकर्तुं सहायको भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता