दिल्लीमुख्यमन्त्री रेखा गुप्ता कोलकातानगरस्थे कालीघट्टम् आगत्य पूजाऽर्चनां कृतवती
कोलकातानगरम्, २२ फरवरीमासः (हि.स.)। पश्चिमबङ्गालराज्ये अग्रिम-विधानसभा-निर्वाचनं दृष्ट्वा विविध-राजनीतिक-दलानां राष्ट्रिय-स्तरीय-नेतॄणां बंगाल-आगमन-गमनं निरन्तरं वर्धमानं दृश्यते। अस्मिन्नेव प्रसङ्गे रविवासर-प्रभाते दिल्ली-राज्यस्य मुख्यमन्त्री रेख
कालीघाट में दिल्ली की मुख्यमंत्री रेखा गुप्ता


कालीघाट में दिल्ली की मुख्यमंत्री रेखा गुप्ता


कोलकातानगरम्, २२ फरवरीमासः (हि.स.)। पश्चिमबङ्गालराज्ये अग्रिम-विधानसभा-निर्वाचनं दृष्ट्वा विविध-राजनीतिक-दलानां राष्ट्रिय-स्तरीय-नेतॄणां बंगाल-आगमन-गमनं निरन्तरं वर्धमानं दृश्यते। अस्मिन्नेव प्रसङ्गे रविवासर-प्रभाते दिल्ली-राज्यस्य मुख्यमन्त्री रेखा गुप्ता कोलकातानगरे स्थिते प्रसिद्धे कालीघट्टे काली-मन्दिरे मातुः कालीदेव्याः पूजाऽर्चनां कृतवती।

प्रातःकाले कालीघाट-मन्दिरं प्राप्य रेखा गुप्ता लघु-पाटल-वर्णस्य साटिकां तथा भगवा-वर्णस्य उत्तरीयं धारयन्ती दृश्यते स्म। दृढा-सुरक्षा-व्यवस्थायाः मध्ये सा मन्दिरं प्रविश्य मातुः कालीदेव्याः दर्शनं कृत्वा विधिवत् पूजाऽर्चनां कृतवती। मन्दिर-परिसरे तस्याः उपस्थितिं दृष्ट्वा राजनीतिक-वृत्तेषु स्वाभाविकतया चर्चाः आरब्धाः।

राजनैतिक-विश्लेषकेषु एषः प्रश्नः उद्भूतः यत्—किम् एषः प्रवास: केवलं धार्मिक-आस्थया सम्बद्धः अस्ति, आहोस्वित् विधानसभानिर्वाचनात् पूर्वं किञ्चन राजनैतिक-सन्देशं दातुं कश्चित् प्रयासः क्रियते। अस्मिन् विषये यदा पत्रकारैः प्रश्नाः कृताः तदा सा स्मितं कृत्वा कस्यापि राजनैतिक-टिप्पण्याः परिहारं कृतवती।

राज्य-भाजपा-सूत्रैः सूचितं यत् रेखा गुप्ता रविवासरस्य अपराह्णे कोलकातास्थे साइंस-सिटी-ऑडिटोरियम्-स्थले भाजपामहिला-मोर्चया आयोजिता स्त्री-सम्बेलन-कार्यक्रमेऽपि सहभागिता कृतवती। अस्मिन् सम्मेलने केन्द्रीयमन्त्री अन्नपूर्णा देवी तथा पूर्व-केन्द्रीयमन्त्री देवश्री चौधरी सहिताः अनेके वरिष्ठाः भाजपानेतारः उपस्थिताः आसन्।

राजनैतिक-विश्लेषकाः वदन्ति यत् विधानसभानिर्वाचनात् पूर्वं राष्ट्रिय-नेतॄणां एतादृशं निरन्तरं बंगाल-आगमनं केवलं संयोगः न भवति। एष: केवलं शिष्टाचार-साक्षात्कार: अस्ति वा किञ्चिद् व्यापक-निर्वाचन-रणनीतेः अङ्गं, एतस्य उत्तरं अग्रिम-काले एव ज्ञास्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता