भाजपा अध्यक्षस्य नवीनस्य गुर्जर नेतृषु जनतायाः मध्ये गत्वा कार्यं कर्तुम् आह्वानम्
गांधीनगरम्, 22 फरवरीमासः (हि.स.)। त्रिदिवसीयगुजरातभ्रमणे आगतः भारतीय जनतादलस्य राष्ट्रियाध्यक्षः नितिन नवीन दलनेतृभ्यः जनप्रतिनिधिभ्यश्च दृढं शिक्षणं अददात्। गुजरात प्रदेशस्य मुख्यालये ‘कमलम्’ इति स्थाने आयोजितायां महत्त्वपूर्णायां सभायां सः स्प
भाजपा के  राष्ट्रीय अध्यक्ष नितिन नवीन गुजरात के कार्यकर्ताओं को संबोधित करते हुए


गांधीनगरम्, 22 फरवरीमासः (हि.स.)।

त्रिदिवसीयगुजरातभ्रमणे आगतः भारतीय जनतादलस्य राष्ट्रियाध्यक्षः नितिन नवीन दलनेतृभ्यः जनप्रतिनिधिभ्यश्च दृढं शिक्षणं अददात्।

गुजरात प्रदेशस्य मुख्यालये ‘कमलम्’ इति स्थाने आयोजितायां महत्त्वपूर्णायां सभायां सः स्पष्टशब्दैः अवदत् यत् राजनीति: न कश्चन लघुपन्था, अपि तु दीर्घदौडासदृशी प्रतियोगिता अस्ति, यस्मिन् निरन्तरपरिश्रमः अनिवार्यः। सः दलनेतॄन् जनानां मध्ये गत्वा कार्यं कर्तुं प्रेरितवान्।

तेन उक्तं यत् “केवलं पदलाभाय दलं मा प्रविशत। पदं भवेत् वा न भवेत्, संगठनाय कार्यं करणीयम्। स्वजिले आत्मानमेव दलम् इति मन्यमानः स्वजनान् प्रतिष्ठापयितुं प्रयत्नः दलहिताय न युक्तः।”

प्रदेशपदाधिकरिभिः नगराध्यक्षैः अन्यैः नेतृभिश्च सह चर्चायां सः प्रभारिणां कार्यप्रणाल्याः विषये असन्तोषं प्रकटितवान्। तेन उक्तं यत् केचन नेतारः जिले गत्वा न्यायस्य वचनं कुर्वन्ति, परन्तु तत्रैव स्वजनान् प्रतिष्ठापयन्ति, यत् संगठनस्य सिद्धान्तानां विरुद्धम् अस्ति।

भाजपाध्यक्षः नवीनः मार्गदर्शनं दत्त्वा अवदत् यत् भाजपाप्रतिनिधीनां समाजे दृढा पकड् भवेत्। यदि भवन्तः स्वपदात् द्वौ पादौ अधः अवतरित्वा कार्यं करिष्यन्ति, तर्हि उत्तमानि परिणामानि प्राप्तुं शक्यन्ते।

विधायकैः सांसदैश्च सह सभायां सः विशेषतया अवदत्— “गृहे उपविश्य कार्यालयं मा चालयत। भूमौ अवतरन्तु, जनानां मध्ये गच्छन्तु, जनसम्पर्कं दृढीकुरुत।”

आगामिगुजरातविधानसभानिर्वाचनं दृष्ट्वा तेन निर्देशः दत्तः यत् शासनस्य जनकल्याणकारीयोजनाः प्रत्येकजनं प्रति प्राप्यन्ताम्, बूथस्तरे दत्तांशसंग्रहः दृढीकृतः भवेत्।

सामाजिकमाध्यमेषु अपि तेन नेतॄणां निष्क्रियतायाः विषये असन्तोषः व्यक्तः। हालिहालि सम्पन्ने एआई शिखरसम्मेलने कांग्रेसदलेन कृतस्य विरोधस्य विषये कतिभिः नेतृभिः सामाजिकमाध्यमेषु प्रतिक्रिया दत्ता इति सः अपृच्छत्। अल्पैः एव हस्तौ उत्तोलितौ दृष्ट्वा सः अवदत्— “यदि उत्तरदायिनः एव सक्रियाः न भविष्यन्ति, तर्हि संगठनं कथं सञ्चरिष्यति?”

---------------

हिन्दुस्थान समाचार