Enter your Email Address to subscribe to our newsletters

मुंबई, 22 फरवरीमासः (हि.स.)।
पूर्वकेन्द्रीयमन्त्री शरद पवार इत्यस्य रविवासरे पुनः स्वास्थ्यं विक्षिप्तम् अभवत्, ततोऽनन्तरं तं रूबीहॉलक्लिनिक इति चिकित्सालये पुणेनगरे भर्ती कृतवन्तः। शरद पवार आगामी द्विदिनपर्यन्तं अस्मिन्नेव चिकित्सालये स्थास्यति।
रुबी हॉल क्लिनिक चिकित्सालयस्य वैद्येन उक्तं यत् वमनकारणात् शरद पवारस्य शरीरस्य निर्जलीकरणम् अभवत्। अतः सः आगामी द्विदिनपर्यन्तं अत्रैव स्थित्वा चिकित्सां प्राप्स्यति। अधुना तस्य स्वास्थ्यावस्था पूर्णतया स्थिरा तथा सम्यक् अस्ति।
सुप्रिया सुले, या शरद पवारस्य दुहिता सांसद् च अस्ति, अवदत् यत् अद्य सहसा तस्मै वमनम् अभवत्, येन सः अस्वस्थतां अनुभूतवान्। ततः तत्क्षणमेव रुबी हॉल क्लिनिकस्य वैद्याः आहूताः। वैद्यानां परामर्शानुसारं शरद पवार पुनः चिकित्सालये भर्ती कृतः। सुप्रिया सुले कार्यकर्तॄन् चिकित्सालयं प्रति न आगन्तुं विनयं कृतवती।
उल्लेखनीयम् यत् शरद पवारः अतीतेऽपि अस्मिन्नेव चिकित्सालये भर्ती कृतः आसीत्। अस्मात् चिकित्सालयात् १४ फरवरी दिनाङ्के तस्य निष्क्रमणम् अभवत्। चिकित्सालये तस्य सीटी स्कैन इत्यादयः आवश्यकपरिक्षणाः कृताः। वैद्याः तस्मै विश्रान्तिं कर्तुं परामर्शं दत्तवन्तः।
---------------
हिन्दुस्थान समाचार