Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 23 फरवरीमासः (हि.स.)।
केन्द्रसरकारेण आंध्र प्रदेश राज्ये ग्रामीणदूरसञ्चाराधारसंरचनां सुदृढीकर्तुं उन्नेतुं च राज्यसरकारया सह एकः समझौतपत्रे हस्ताक्षरं कृतम्। अस्य हेतोः केन्द्रेण राज्याय ग्रामीणदूरसञ्चाराधारसंरचनासुदृढीकरणाय उन्नयनाय च २,४३२ कोटिरूप्यकाणाम् अनुमतिः प्रदत्ता।
केन्द्रीयसञ्चारमन्त्रालयेन उक्तं यत् केन्द्रसरकारस्य एककस्य डिजिटल भारत निधेः तथा आंध्र प्रदेश राज्यसर्वकारस्य मध्ये भारतनेट संशोधित कार्यक्रमस्य शीघ्रं कार्यान्वयनार्थं रविवासरे राज्यस्य मुख्यमन्त्रिकार्यालये तडेपल्ले गुंटूर नगरे सम्पन्ने अस्यां सहमतौ राज्यस्य मुख्यमन्त्री एन चंद्रबाबू नायडू, केन्द्रीयसञ्चारमन्त्री ज्योतिरादित्य एम. सिंधिया तथा सञ्चारराज्यमन्त्री डॉ. पेम्मासानी चंद्र शेखरः उपस्थिताः आसन्।
सहमतिपत्रे डिजिटल भारत निधेः प्रशासकः श्यामल मिश्रा तथा आंध्र प्रदेश राज्यसर्वकारस्य विशेषमुख्यसचिवः मोव्वा तिरुमाल कृष्णा बाबू हस्ताक्षरं कृतवन्तौ।
केन्द्रीयमन्त्री सिंधिया अवदत् यत् संशोधितः भारतनेट कार्यक्रमः १.३९ लक्षकोटिरूप्यकपरिमितया सार्वजनिकनिध्या सञ्चालितः योजना अस्ति, यस्य लक्ष्यं देशस्य प्रत्येकग्रामं यावत् तन्तुजालं ब्रॉडबैंड सेवा च प्रापयितुम्। तेन एषः तकनीकस्य लोकतंत्रीकरणरूपेण निरूपितः।
राज्यमन्त्री डॉ चंद्र शेखर अवदत् यत् एषः समझौतः ग्रामीणक्षेत्रेषु अन्तिमपर्यन्तं संयोजकत्वं सुदृढं करिष्यति तथा जनानां कृते सुलभाः विश्वसनीयाश्च डिजिटलसेवाः प्रदास्यति।
राज्यस्य मुख्यमन्त्री नायडू एतत् राज्यस्य डिजिटलरूपान्तरणयात्रायां मीलपत्थररूपेण अभिहितवान् तथा अवदत् यत् अनेन शिक्षास्वास्थ्य ई शासनसेवासु अपि उन्नतिः भविष्यति।
उल्लेखनीयम् यत् संशोधितभारतनेटकार्यक्रमस्य अन्तर्गतं आंध्र प्रदेश राज्ये १३,४२६ ग्रामपञ्चायताः संयोजिताः भविष्यन्ति। अस्मिन् प्रथमचरणस्य १,६९२ ग्रामपञ्चायतानां उन्नयनम्, द्वितीयचरणस्य ११,२५४ ग्रामपञ्चायतानां समावेशः तथा ४८० नवीनग्रामपञ्चायतानां संयोजनम् अन्तर्भवति। अपि च ३,९४२ ग्रामाणां मागानुसारं संयोजकत्वं प्रदास्यते। अस्य पहलस्य प्रभावेन ५ लक्षाधिकाः ग्रामीणगृहाः तन्तुसंयोजनं प्राप्स्यन्ति इति अपेक्षा अस्ति।
---------------
हिन्दुस्थान समाचार