वैज्ञानिकाः सस्यानाम् अवशेषाणां जनकल्याणकारी याेजनानां च सूचनामददात्
कानपुरम्, 23 फरवरीमासः (हि.स.)। अवशिष्टपदार्थदाहेन भूमौ विद्यमानानां सूक्ष्मजीवानां संख्या न्यूनता गच्छति। तेन सह भूमेः पोषकतत्त्वानि क्षीयन्ते भूमिः कठिना भवति तस्याः जलधारणक्षमता अपि ह्रासं गच्छति। जीवांशपदार्थस्य मात्रायाः क्षयेण भूमिः शनैः शनैः
कार्यक्रम के दौरान लिया गया छायाचित्र


कानपुरम्, 23 फरवरीमासः (हि.स.)। अवशिष्टपदार्थदाहेन भूमौ विद्यमानानां सूक्ष्मजीवानां संख्या न्यूनता गच्छति। तेन सह भूमेः पोषकतत्त्वानि क्षीयन्ते भूमिः कठिना भवति तस्याः जलधारणक्षमता अपि ह्रासं गच्छति। जीवांशपदार्थस्य मात्रायाः क्षयेण भूमिः शनैः शनैः उर्वराशक्तिं त्यजति येन उत्पादनस्य उपरि प्रतिकूलः प्रभावः भवति। एतानि वचनानि सोमवासरे मृदावैज्ञानिकः डॉ खलीलखान उक्तवान्।चन्द्रशेखरआजादकृषिऔद्योगिकीविश्वविद्यालयकानपुरस्य अधीनस्थितेन कृषिविज्ञानकेन्द्रेण दिलीपनगरद्वारा विकासखण्डमैथा अन्तर्गत औनहां ग्रामे फसलअवशेषप्रबन्धनविषये जनपदस्तरीयजागरूकताकार्यक्रमः आयोजितः। अस्मिन् अवसरे केन्द्रस्य वैज्ञानिकाः कृषकान् अवशेषदाहेन उत्पद्यमानान् दुष्प्रभावान् विषये विस्तरेण अवदन् तथा तेषां समुचितप्रबन्धनाय प्रेरितवन्तः।

केन्द्रस्य गृहवैज्ञानिकाः डॉ निमिषाअवस्थी उक्तवती यत् अवशेषदाहेन भूमेः स्वास्थ्यं दूष्यते पर्यावरणं च प्रदूष्यते। तया कृषकाः आवेदिताः यत् ते अवशेषान् क्षेत्रे एव डीकम्पोजरस्य साहाय्येन अपचाययन्तु।

प्रसारवैज्ञानिकः डॉ राजेशराय हैप्पीसीडर मल्चर रोटावेटर सुपरसीडर स्मार्टसीडर इत्यादिकृषियन्त्राणां माध्यमेन अवशेषप्रबन्धनस्य महत्त्वं प्रतिपादितवान्। स कृषकान् स्वग्रामेषु अवशेषदाहस्य हानिकारकतां विषये अन्यान् अपि जागरूकान् कर्तुं प्रार्थितवान्।

सहायकविकासाधिकारी कृषि बृजेन्द्रयादव कृषि विभागस्य योजनानां विषये जानकारीं दत्तवान्। पशुचिकित्साधिकारी डॉ राहुलकटियार पशुषु खुरपकामुखपकारोगनिवारणोपायान् अवदत्।

कार्यक्रमस्य मुख्यातिथिः जिलापञ्चायतसदस्यः रामजीअग्निहोत्री प्राकृतिककृषेः महत्त्वं प्रकाश्य वैज्ञानिकैः निर्दिष्टाः तकनीकाः स्वीकरणीयाः इति कृषकान् प्रेरितवान्। कार्यक्रमस्य अध्यक्षतां कुर्वन् वरिष्ठस्वयंसेवी प्रदीपअवस्थी उक्तवान् यत् एतादृशैः आयोजनैः कृषकानां जागरूकता वर्धते उत्पादनं च अधिकं भवति।

अन्ते मुख्यातिथिः अङ्गवस्त्रेण स्मृतिचिह्नेन च सम्मानितः। प्रश्नोत्तरपरिसंवादे विजयी कृषकाः पुरस्कृताः। कार्यक्रमस्य सफलतायां धर्मेन्द्रसिंहचन्देल सोनूसिंह शुभमयादव च विशेषं योगदानं दत्तवन्तः। कार्यक्रमे भाजपा महिलामोर्चामन्त्री पुष्पलतासिंह समाजसेवी शिवनारायणअवस्थी श्रीरामप्रकाशअवस्थी च सहिताः द्विशताधिकाः कृषकाः सहभागिनोऽभवन्।

हिन्दुस्थान समाचार