मुख्यमंत्री डॉ. यादवोऽद्य लुप्तप्राय प्रजातीनां पञ्च गृद्धान् हलाली डेम क्षेत्रे करिष्यति मुक्तान्
भोपालम्, 23 फ़रवरीमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ मोहन यादवः अद्य सोमवासरे हलाली बाँधक्षेत्रे लुप्तप्रायप्रजातीनां पञ्चानां गृध्राणां प्राकृतिकवासस्थाने मोक्षणं करिष्यति। एतेषु चत्वारः भारतीयगृध्राः जिप्स इंडिकस तथा एकः सिनेरियस गृध्र
मुख्यमंत्री डॉ. यादव


भोपालम्, 23 फ़रवरीमासः (हि.स.)।

मध्यप्रदेशस्य मुख्यमन्त्री डॉ मोहन यादवः अद्य सोमवासरे हलाली बाँधक्षेत्रे लुप्तप्रायप्रजातीनां पञ्चानां गृध्राणां प्राकृतिकवासस्थाने मोक्षणं करिष्यति। एतेषु चत्वारः भारतीयगृध्राः जिप्स इंडिकस तथा एकः सिनेरियस गृध्रः एजिपीयस मोनाकस अन्तर्भवन्ति।

जनसम्पर्काधिकारी केके जोशी उक्तवान् यत् उच्चसटीकतायुक्तैः जीपीएस जीएसएम उपग्रहप्रेषकयन्त्रैः सुसज्जिताः पञ्च दुर्लभप्रजातीयाः गृध्राः भोपालस्थिते गृध्रसंरक्षणप्रजननकेन्द्रे सम्यक् अनुकूलनपर्यवेक्षणावधिपश्चात् मोच्यन्ते।

तेन उक्तं यत् टैगिङ्गप्रक्रिया सर्वासां सम्बन्धितसंस्थाः वनविभागप्रतिनिधयः च उपस्थिताः सन्तः वाइल्डलाइफ एस ओ एस संस्थायाः वन्यजीवपशुचिकित्सकस्य पर्यवेक्षणे सम्पन्ना। एषा पहल मध्यभारतस्य विकसितमानस्य गृध्रपरिदृश्यस्य अवबोधनदिशि महत्त्वपूर्णं पदम् अस्ति। यत्र भारतीयगृध्राः सामान्यतया एकस्मिन् एव क्षेत्रे निवसन्ति तत्र सिनेरियस गृध्राः मध्यएशियाई फ्लाइवेनामकप्रवासीमार्गे दीर्घदूरप्रवासं कुर्वन्ति यः त्रिंशदधिकदेशेषु विस्तीर्णः विश्वस्य प्रमुखप्रवासीपक्षिगलियारा इति ज्ञायते।

जनसम्पर्काधिकारी उक्तवान् यत् पक्षिसंरक्षणदिशि महत्त्वपूर्णं पदम् उद्घाट्य मध्यप्रदेशवनविभागेन डब्ल्यूडब्ल्यूएफ इंडिया तथा बॉम्बे नेचुरल हिस्ट्री सोसायटी इत्येतयोः सहयोगेन गृध्राणां गतिविधानस्य पर्यवेक्षणस्य च कृते उपग्रहटेलीमेट्रीकार्यक्रमः आरब्धः। टेलीमेट्रीदत्तांशैः गृध्राणां भूभागोपयोगः गमनागमनरूपरेखा मानवजनितदबावानां प्रति तेषां प्रतिक्रिया इत्यादिषु महत्त्वपूर्णा सूचना प्राप्यते। अनेन प्रमुखविश्रामस्थलानां भोजनक्षेत्राणां च परिचयः संरक्षितक्षेत्रेषु मानवप्रधानक्षेत्रेषु च तेषां पारिस्थितिकीसम्बन्धस्य अवगमः तथा विद्युताघात विषाक्तता आवासक्षय इत्यादीनां उच्चजोखिमक्षेत्राणां परिचयः सुलभः भवति। अस्मिन् प्रक्रियायां संगृहीतानि वैज्ञानिकप्रमाणानि अधिकप्रभावी संकटप्रतिरोधरणनीतिनिर्माणे सीमा पार सहयोगेन सह भूभागस्तरीयसंरक्षणयोजनानां सुदृढीकरणे च सहायकानि भविष्यन्ति।

तेन उक्तं यत् मध्यप्रदेशे उपग्रहटेलीमेट्रीद्वारा गृध्रसंरक्षणस्य एकीकृतदत्तांशाधारितं भूभागस्तरीयसंरक्षणपरिसंस्थानम् विकसितम्। अनेन लुप्तप्रायगृध्रप्रजातीनां संरक्षणं भविष्यति पर्यावरणस्वास्थ्यस्य प्रहरीरूपेण तेषां भूमिका दीर्घकालपर्यन्तं सुनिश्चितीभविष्यति।

उल्लेखनीयम् यत् भारतीयपरम्परायां गृध्राः शक्तेः सम्मानस्य च प्रतीकरूपेण मन्यन्ते। रामायणे उल्लेखः अस्ति यत् जटायुः रावणात् माता सीतायाः रक्षणप्रयत्ने आत्मोत्सर्गं कृतवान्। रामायणे एव तस्य भ्रातुः सम्पातेः कथा अपि वर्तते यस्य सूर्यतापात् स्वस्य अनुजं जटायुः रक्षितुं बलिदानं कृतम्। पर्यावरणपारिस्थितिकीतन्त्रे गृध्राः प्रकृतेः शौचकर्मकारिणः इव महत्त्वपूर्णां भूमिकां निर्वहन्ति। ते पर्यावरणसन्तुलनरक्षणे रोगप्रसारनिवारणे च महत्त्वपूर्णं योगदानं ददति।

मध्यप्रदेशः दीर्घकालात् देशे गृध्रसमृद्धजनसंख्यायाः केन्द्रम् अस्ति। अस्मिन् प्रदेशे भारतीयगृध्रः लॉन्ग बिल्ड वल्चर सिनेरियस गृध्रः ब्लैक वल्चर मिस्रगृध्रः व्हाइट स्कैवेंजेर वल्चर हिमालयन ग्रिफॉन इत्यादयः प्रजातयः दृश्यन्ते। अद्यतन वल्चर एस्टिमेशन २०२६ कार्यक्रमस्य प्रथमदिने दक्षिण पन्ना वनप्रभागे सहस्राधिकगृध्राणाम् अवलोकनं कृतम् यत् हालवर्षेषु अधिकतमसंख्या इति निर्दिश्यते।

---------------

हिन्दुस्थान समाचार