Enter your Email Address to subscribe to our newsletters

जेवरविमानस्थानकस्य प्रायेण 100 एकड़मितायां भूमौ अंताराष्ट्रियं थीम -आधारितं विकसितं भविष्यति टाउनशिप इति
लखनऊ, 23 फरवरीमासः (हि.स.)।मुख्यमन्त्री योगी आदित्यनाथ महोदयस्य सिंगापुर देशस्य दौरे प्रथमदिने एव सोमवासरे उत्तर प्रदेश सरकाराय महती सफलता प्राप्ता। यूनिवर्सल सक्सेस् समूहः इति संस्थया राज्ये समग्रं ६६५० कोटिरूप्यकपरिमितनिवेशार्थं त्रिषु महत्त्वपूर्णेषु सहमतिस्मारकेषु हस्ताक्षराः कृताः। एते निवेशाः समूहआवासव्यवस्था, लॉजिस्टिक्स, हाइपरस्केल डाटा केन्द्र इत्यादिषु रणनीतिकक्षेत्रेषु भविष्यन्ति। एताभ्यः त्रिभ्यः परियोजनाभ्यः २० सहस्राधिकरोजगारसृजनम् अपेक्षितम्।
मुख्यमन्त्री योगी आदित्यनाथः निवेशकान् उत्तरप्रदेशस्य नीतिस्थैर्यं, उत्कृष्टसंयोजकत्वं, शीघ्रविकसमानम् औद्योगिकाधारसंरचनां च अवगतवान्। समूहं डाटा केन्द्रस्थापनार्थं लखनऊनगरं आगन्तुं आमन्त्रितवान्। सः उक्तवान् यत् राज्यसरकारः निवेशकेभ्यः सर्वस्तरेषु सहयोगं दातुं प्रतिबद्धा अस्ति।
प्रथमदिने सम्पन्नाः एते त्रयः सहमतिस्मारकाः राज्यस्य अर्थव्यवस्थां सुदृढीकर्तुं, नगरीयविकासाय नूतनदिशां दातुं, विशालरोजगारसृजनं सुनिश्चितुं च महत्त्वपूर्णसिद्धयः मन्यन्ते।
राज्यसर्वकारस्य प्रवक्ता अवदत् यत् प्रथमपरियोजनायाः अन्तर्गतं यमुना एक्सप्रेसवे औद्योगिक विकास प्राधिकरण क्षेत्रे नोएडा अंताराष्ट्रियविमानस्थानक समीपे १०० एकरभूमौ अन्तरराष्ट्रीयविषयाधारितनगरसमूहः विकसितः भविष्यति। अस्मिन् ३५०० कोटिरूप्यकनिवेशः प्रस्तावितः अस्ति। अस्य कार्यारम्भे सति प्रायः १२ सहस्रजनानां जीविका भविष्यति। २०२७ वर्षे अस्य आरम्भः योजनितः अस्ति। एषा परियोजना जेवरविमानक्षेत्रपरिसरे शीघ्रविकसमाननगरक्षेत्राय नूतनपरिचयं दास्यति।
द्वितीयपरियोजना कानपुर–लखनऊ महामार्गे ५० एकरभूमौ लॉजिस्टिक्स पार्कविकाससम्बद्धा अस्ति। अस्मिन् ६५० कोटिरूप्यकनिवेशः प्रस्तावितः, प्रायः ७५०० जीविकासृजनम् अपेक्षितम्। अस्य अपि २०२७ वर्षे आरम्भः योजनितः। एषः लॉजिस्टिक्स पार्कः राज्यस्य औद्योगिकनिर्यातगतिविधिषु वेगं दास्यति।
तृतीयपरियोजनायाः अन्तर्गतं नोएडा तथा ग्रेटर नोएडा क्षेत्रे १० एकरभूमौ ४० मेगावाट् आईटी शक्तियुक्तः हाइपरस्केल डाटा केन्द्र पार्कः स्थापितः भविष्यति। अस्मिन् २५०० कोटिरूप्यकनिवेशः भविष्यति, प्रायः १५०० जनानां जीविका सृज्यते। सहमतिहस्ताक्षरस्य अनुसारं २०२८ वर्षे अस्य परियोजनायाः आरम्भः योजनितः। एषः निवेशः उत्तरप्रदेशं देशस्य अग्रणी डाटा केन्द्र केन्द्ररूपेण प्रतिष्ठापयितुं महत्त्वपूर्णं चरणं भविष्यति।
हिन्दुस्थान समाचार