झारखंड नगर निकायनिर्वाचनाय मतदानं शुभारब्धं, सुरक्षायाः दृढप्रबंधः
रांची, 23 फरवरीमासः (हि.स.)। झारखण्डराज्यस्य नगरनिकायनिर्वाचनार्थम् अद्य प्रातः सप्तवादनात् मतदानप्रक्रिया आरब्धा। झारखण्डस्य अष्टचत्वारिंशत् नगरनिकायक्षेत्रेषु मतदातारः स्वमताधिकारस्य प्रयोगं कुर्वन्ति। मतदानं सायं पञ्चवादनपर्यन्तं भविष्यति। रा
मतदान केंद्र पर वोट देते लोग


रांची, 23 फरवरीमासः (हि.स.)।

झारखण्डराज्यस्य नगरनिकायनिर्वाचनार्थम् अद्य प्रातः सप्तवादनात् मतदानप्रक्रिया आरब्धा। झारखण्डस्य अष्टचत्वारिंशत् नगरनिकायक्षेत्रेषु मतदातारः स्वमताधिकारस्य प्रयोगं कुर्वन्ति। मतदानं सायं पञ्चवादनपर्यन्तं भविष्यति।

राज्यनिर्वाचनायोगस्य सचिवः राधेश्यामप्रसादः उक्तवान् यत् राज्यस्य ४३०७ मतदानकेन्द्रेषु मतदानं प्रवर्तते। एतेषु २१३४ संवेदनशीलकेन्द्राणि तथा ८९६ अतिसंवेदनशीलमतदानकेन्द्राणि सन्ति। अद्यावधि कुत्रापि अप्रियसमाचारः न प्राप्तः।

पुरुषमतदातॄणां संख्या २२११७८१ तथा महिलामतदातॄणां संख्या २१३१३७० अस्ति। तृतीयलिङ्गमतदातारः १४४ सन्ति। मेयरपदस्य अध्यक्षपदस्य च कृते ५६२ प्रत्याशिनः स्पर्धां कुर्वन्ति, तथा ५५६२ प्रत्याशिनः वार्डपार्षदपदस्य कृते निर्वाचनं याचन्ते। समग्राणां ६१२४ प्रत्याशिनां राजनैतिकभविष्यं सायं पञ्चवादने ८६०८ मतपेटीषु सुरक्षितं भविष्यति।

अस्मिन् समये राज्यस्य नव नगरनिगमेषु, विंशति नगरपरिषत्सु, एकोनविंशति नगरपञ्चायतेषु च निर्वाचनं प्रवर्तते। महापौराध्यक्षयोः ४८ पदानां तथा वार्डपार्षदस्य १०४२ पदानां कृते मतदानं क्रियते। ४१ वार्डपार्षदाः निर्विरोधेन चयनिताः, त्रिषु वार्डेषु कस्यापि नामनिर्देशनं न जातम्।

मतदानकाले विधिसुव्यवस्थारक्षणार्थं पर्याप्तसंख्यायां सुरक्षा बलानि नियुक्तानि। संवेदनशीलातिसंवेदनशीलकेन्द्रेषु विशेषनिगरानी क्रियते। राज्यसर्वकारेण मतदानक्षेत्रेषु सार्वजनिकावकाशः घोषितः। मतगणना २७ फरवरी तिथौ भविष्यति।

एतत् निर्वाचनं निर्दलीयाधारेण भवति, अर्थात् प्रत्याशिनः कस्यापि दलस्य चिह्नेन न, किन्तु स्वव्यक्तिगताधारेण स्पर्धन्ते। मतदातारः मेयरपदस्य पार्षदपदस्य च कृते मतदानं करिष्यन्ति। मेयरपदाय गुलाबीवर्णस्य मतपत्रस्य उपयोगः क्रियते, पार्षदपदाय श्वेतवर्णस्य मतपत्रस्य उपयोगः भवति। अस्मिन् निर्वाचने नोटा विकल्पः उपलब्धः नास्ति।

---------------

हिन्दुस्थान समाचार