Enter your Email Address to subscribe to our newsletters

खूंटी, 23 फ़रवरीमासः (हि.स.)।
खूंटी नगरपञ्चायतनिर्वाचनार्थं सोमवासरे प्रातः सप्तवादनात् मतदानप्रक्रिया आरब्धा। प्रातः सप्तवादनात् पूर्वमेव मतदानकेन्द्रेषु मतदातॄणां दीर्घपङ्क्तयः दृश्यन्ते स्म।
निर्वाचनसम्बन्धे मतदातृषु प्रातःकालात् एव महानुत्साहः दृष्टः। नगरपञ्चायतनिर्वाचनाय त्रिंशत् मतदानकेन्द्राणि निर्मितानि सन्ति। अस्मिन् निर्वाचने अध्यक्षपदाय त्रयः प्रत्याशिनः सन्ति भाजपा समर्थिता रानी टूटी कांग्रेस समर्थितः मनोनीत बोदरा झामुमो समर्थिता सोनम बागे च। एतेभ्यः अतिरिक्तं एकोनविंशतिवार्डपार्षदपदानां कृते सप्तसप्ततिः प्रत्याशिनः स्वभाग्यं परीक्षन्ते।
मतगणना सप्तविंशतितमे फरवरी मासस्य दिने भविष्यति।
---------------
हिन्दुस्थान समाचार