आसनसोले लियोनेल मेसी-महोदयस्य प्रतिमायाः अनावरणम्
आसनसोलम्, 23 फ़रवरीमासः (हि.स.)। राज्यस्य श्रम-विधि-न्याय मन्त्री मलय घटकः रविवासरे सायंकाले आसनसोले अपि अर्जेन्टीना देशस्य विख्यातस्य पादकन्दुकक्रीडकस्य लियोनेल मेसी महोदयस्य प्रतिमायाः अनावरणम् अकरोत्। आसनसोलस्य मोहिशीला क्षेत्रस्य निवासी मूर्ति
मेसी की प्रतिमा अनावरण सामारोह में शामिल


आसनसोलम्, 23 फ़रवरीमासः (हि.स.)। राज्यस्य श्रम-विधि-न्याय मन्त्री मलय घटकः रविवासरे सायंकाले आसनसोले अपि अर्जेन्टीना देशस्य विख्यातस्य पादकन्दुकक्रीडकस्य लियोनेल मेसी महोदयस्य प्रतिमायाः अनावरणम् अकरोत्। आसनसोलस्य मोहिशीला क्षेत्रस्य निवासी मूर्तिकारः सुशांत राय महोदयः मेसी महोदयस्य जीवन्तीं सिक्थमयीं (मोम) प्रतिमां निर्माय नगरवासिभ्यः एकम् अपूर्वं उपहारं दत्तवान्।

​उल्लेखनीयम् अस्ति यत् १३ दिसम्बर २०२५ दिनाङ्के कोलकातायाः लेक टाउन स्थित 'श्रीभूमि स्पोर्टिंग क्लब' द्वारा निर्मितायाः ७० पादपरिमितोन्नतायाः लौहमयी प्रतिमायाः अनावरणं कृतम् आसीत्। एषा प्रतिमा मेसी महोदयं कतर-२०२२ विश्वचषकविजयस्य उत्सवं मन्यमानं दर्शयति। मेसी महोदयः स्वस्य 'गो एट इण्डिया टूर २०२५' इत्यस्य समये आभासीय (वर्चुअल) माध्यमेन अस्याः प्रतिमायाः उद्घाटनं कृतवान् आसीत्। एषा भव्या प्रतिमा भारते पादकन्दुकं प्रति उत्साहस्य मेसी महोदयं प्रति च प्रशंसकानां प्रेमणः प्रतीकः मन्यते।

​अस्यामेव श्रृङ्खलायाम् आसनसोलस्य मूर्तिकारः सुशांत राय महोदयः केवलं मासद्वयस्य परिश्रमेण मेसी महोदयस्य सिक्थमयीं प्रतिमां रचयित्वा सर्वान् विस्मितान् अकरोत्। एषा प्रतिमा आकारे भले एव कोलकातायाः ७० पादपरिमितोन्नतायाः प्रतिमायाः भिन्ना स्यात्, किन्तु सूक्ष्मकलाकारी मुखस्य भावानां सजीवता च एतां अतीव विशिष्टां करोति। प्रतिमां द्रष्टुं जनानां महती संमर्दः (भीड़) उमडति। पादकन्दुकप्रेमिषु विशेषः उत्साहः दृश्यते, जनाः च मेसी महोदयेन सह 'सेल्फी' स्वीकर्तुं उत्सुकाः दृश्यन्ते।

​स्थानीयजनानां कथनम् अस्ति यत् एतादृश्याः उपक्रमात् आसनसोलस्य परिचयः सांस्कृतिक-क्रीडाप्रेमि-नगररूपेण अधिकं सुदृढः भविष्यति। अपरपक्षे आयोजकानां दावः अस्ति यत् अस्मिन् आयोजने क्षेत्रे उत्सव इव वातावरणम् अस्ति, विशालसंख्यायां च जनाः सम्मिलिताः भवन्ति।

​सर्वं मिलित्वा, कोलकातायाः अनन्तरं आसनसोले मेसी महोदयस्य प्रतिमायाः अनावरणं पादकन्दुकप्रेमिणां कृते गौरवस्य उत्साहस्य च विषयः वर्तते, नगरे च क्रीडां प्रति अनुरागं नूतनां ऊंचाइं (शिखरं) ददाति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता