Enter your Email Address to subscribe to our newsletters

मुंबई, 23 फरवरीमासः (हि.स.)। विवेकानंद यूथ कनेक्ट फाउंडेशन इत्यस्याः संस्थायाः पक्षतः स्वामी विवेकानंद महोदयस्य १६३ तमी जयन्त्याः तथा अन्ताराष्ट्रियमहिलादिवसस्य उपलक्ष्ये ८ मार्च दिनाङ्के जुहू चौपाटी इत्यत्र “१०तमः रन फॉर विवेकानन्द–मुंबई सस्टेनेबिलिटी रन” नामकः कार्यक्रमः आयोजितः भविष्यति इति संस्थया सूचितम्।
संस्थायाः प्रवक्ता अवदत् यत् एषा धावनस्पर्धा स्वामी विवेकानन्दस्य विचाराधारा आधारितास्ति, यस्य विषयः महिला-सशक्तीकरणं स्थायित्वं च अस्ति। अस्याः स्पर्धायाः विशेषता एषा यत् एषा पूर्णतया महिला-स्वयंसेविकाभिः आयोजिता भविष्यति।
एषा धावनस्पर्धा ८ मार्च दिनाङ्के प्रातः ५ वादने आरभ्यते। अस्मिन् १० किमी, ८ किमी, ५ किमी तथा २ किमी परिमाणयुक्ताः विविधाः धावनप्रकाराः भविष्यन्ति। स्पर्धोत्तरं विजेत्रीभ्यः महिलाभ्यः पुरस्काराः अपि प्रदास्यन्ते।
---------------
हिन्दुस्थान समाचार