Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २३ फरवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे पूर्व–केन्द्रीय–मन्त्रिणः मुकुलरॉयस्य निधनम् उपलक्ष्य शोकं व्यक्तवान्। मोदी उक्तवान् यत् मुकुल–रॉयः स्वस्य राजनैतिक–अनुभवेन तथा समाज–सेवायाः प्रयत्नैः स्मरणीयः भविष्यति।
प्रधानमन्त्रिणा‘एक्स’ इत्यत्र प्रकाशिते सन्देशे उक्तं यत्—पूर्व–केन्द्रीय–मन्त्रिणः मुकुल–रॉयस्य निधनात् अतिदुःखं जातम्। सः स्वस्य राजनैतिक–अनुभवेन समाज–सेवायाः च प्रयत्नैः सदा स्मर्यते। तस्य परिवाराय समर्थकेभ्यश्च अस्माकं संवेदनाः सन्ति।
उल्लेखनीयम् यत् मुकुल–रॉयः अद्य प्रभाते कोलकाता-नगरे स्थिते एकस्मिन् चिकित्सालये हृदयाघातेन दिवंगतः। सः ७१ वर्षीयः आसीत्।
हिन्दुस्थान समाचार / अंशु गुप्ता