Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 23 फरवरीमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्र मोदी अज्ञातस्य ज्ञानप्राप्तिं ज्ञातवस्तुनि दृढविश्वासं कार्यस्य आरम्भात् पूर्णतापर्यन्तं संकल्पं च प्रतिपादयन् संस्कृतसुभाषितम् अशंसत्। तेन उक्तं यत् ज्ञानम् आत्मविश्वासः दृढसंकल्पः च एव सफलतायाः प्रगतेः च आधाराः सन्ति।
प्रधानमन्त्री सामाजिकमाध्यमे एक्स इत्यत्र लिखितवान् यत् दिल्ली नगरे आयोजिते ऐतिहासिके एआई सम्मेलने समग्रविश्वेन भारतस्य सामर्थ्यस्य उत्कटप्रशंसा कृता। अनेन स्पष्टं भवति यत् प्रौद्योगिकीविषये देशस्य युवजनानां चिन्तनं सम्पूर्णमानवजातये अतीव उपयोगी सिद्धं भविष्यति।
अस्मिन्नेव प्रसंगे प्रधानमन्त्री एतत् संस्कृतसुभाषितं प्रेषितवान्-अविज्ञातस्य विज्ञानं विज्ञातस्य च निश्चयःआरम्भः कर्मणां शश्वद आरब्धस्य अन्तदर्शनम्
अस्य सुभाषितस्य अर्थः अस्ति यत् यद् अज्ञातं तस्य ज्ञानप्राप्तिः यत् ज्ञातं तस्मिन् दृढविश्वासः यस्य कर्मणः आरम्भः क्रियते तस्य पूर्णतां प्रति अचलसंकल्पः च अनिवार्यः भवति।
---------------
हिन्दुस्थान समाचार