डॉ. मोहन भागवत — राष्ट्रीयस्वयंसेवकसंघस्य मूलं लक्ष्यं व्यक्तिनिर्माणमेव, न तु राजनीति
देहरादूननगरम्, २३ फरवरीमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः डॉ.मोहनभागवत: अवदत् यत् संघः कस्यचित् राजनैतिक-दलस्य अङ्गं नास्ति, न च निर्वाचन-राजनीतिः तस्य उद्देश्यं भवति। संघः व्यक्तिनिर्माणकार्ये प्रवृत्तः अस्ति, यतः यदा व्यक्ति: सुदृढ
पूर्व सैनिकाें से मुलाकात करते डाॅ माेहन भागवत।


देहरादूननगरम्, २३ फरवरीमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः डॉ.मोहनभागवत: अवदत् यत् संघः कस्यचित् राजनैतिक-दलस्य अङ्गं नास्ति, न च निर्वाचन-राजनीतिः तस्य उद्देश्यं भवति। संघः व्यक्तिनिर्माणकार्ये प्रवृत्तः अस्ति, यतः यदा व्यक्ति: सुदृढः भवति तदैव व्यवस्था अपि सुदृढा भवति।

सरसंघचालकः डॉ.भागवतमहोदयः द्विदिनीय-प्रवासाय उत्तराखंड-राज्ये आगतः अस्ति। अद्य प्रवासस्य द्वितीये दिने सः 'हिमालयन-कल्चरल-सेंटर' इत्यस्य प्रेक्षागृहे पूर्वसैनिकैः सह पूर्व-सेनाधिकारीभिश्च सह विशेष-संवाद-गोष्ठीं सम्बोधितवान्। तेन उक्तं यत् संघः साधनाभावेन एव आरब्धः, द्विवारं प्रतिबन्धं प्राप्यापि समाजस्य बलात् अग्रे गतः। संघस्य स्वयंसेवकः आत्मिक-शक्त्या प्रेरितः सन् समाज-परिवर्तनार्थं कार्यं करोति। सः स्पष्टतया अवदत् यत् संघस्य उद्देश्यं न प्रचारः, अपि तु समाज-संघटनं राष्ट्रस्य च उत्थानम्। “संघात् न, समाजात् एव देशः महान् अभवत्—एतत् इतिहासे लेखनीयम्” इति तेन अभिहितम्। संघस्य स्थापना-वर्षात् (१९२५) आरभ्य २०२५ पर्यन्तं यात्रायाः प्रमुख-बिन्दवः अपि तेन पूर्वसैनिकानां समक्षं निरूपिताः।

तेन उक्तं यत् राष्ट्रस्य भाग्य-निर्माणे समाजस्य भूमिकैव महत्तमा अस्ति। समाजः यदि दृढः भविष्यति तर्हि राष्ट्र-रक्षा अपि सशक्ता भविष्यति। समाजस्य बलमेव सर्वान् बलवतः करोति, अतः समाजस्य नेतृत्वं चरित्रवन्तं संघटितं च भवितव्यम्। द्वितीय-विश्वयुद्धस्य उदाहरणं दत्त्वा तेन निरूपितं यत् तदा इंग्लैण्डदेश: युद्धाय सज्जं नासीत्, जर्मनी तु पूर्ण-शक्त्या युद्ध-क्षेत्रे आसीत्। चर्चिल-मन्त्रिमण्डलेन अपि सन्धेः विचारः कृतः, किन्तु नागरिकैः सह विचार-विनिमयात् अनन्तरं चर्चिलेन युद्ध-निर्णयः कृतः। “यदा जनतया युद्धं इच्छितं, तदा युद्ध-निर्णयः कृतः” इति तेन अवदत्। १८५७-वर्षीय-क्रान्तेः विफलताया अपि उल्लेखः तेन कृतः।

तेन उक्तं यत् तस्मिन् काले भारतवर्षे वीरता-शौर्य-साहसस्य अभावः नासीत्, तथापि पराजयः अभवत्। वीराः सङ्घर्षं कृतवन्तः; पराजिताः अपि स्वतन्त्रताया ज्योतिः न निर्वापिता। ततः परं अपि क्रान्तिकारी-आन्दोलनैः राष्ट्रस्य स्वातन्त्र्यार्थं निरन्तरं सङ्घर्षः अनुवर्तितः। सरसंघचालकेन उक्तं यत् स्वतन्त्रतापर्यन्तं सर्वैः एकीकृत्य सङ्घर्षः कृतः, किन्तु स्वतन्त्रताया अनन्तरं राष्ट्रस्य राजनीति स्वार्थेषु प्रवृत्ता, नानाविध-राजनैतिक-दलानां च जन्म अभवत्। आङ्ग्ल-विरोधी सङ्घर्षः समाज-परिवर्तनं विना सम्भवः नासीत्, अतः जातीय-भेदभावात् परं गत्वा समाजस्य ऐक्यं आवश्यकम्। अद्य नानाविधा राजनैतिक-धाराः सन्ति, ताभ्यः विकृतयः अपि जायन्ते इति तेन उक्तम्।

जन्मजातः राष्ट्रभक्तः हेडगेवारःसंघस्य प्रथम-सरसंघचालकस्य डॉ.केशवबलिरामहेडगेवारस्य चिन्तनं राष्ट्रभक्तिं च स्मारयन् सः अवदत् यत् सः जन्मतः एव राष्ट्रभक्तः आसीत्। स्वातन्त्र्य-आन्दोलने सः सक्रियां निर्भीकां च भूमिकां निभृतवान्। दास्यभावे तस्य तीव्रः रोषः आसीत्। “वन्दे मातरम्” इत्यादिषु आन्दोलनेषु सः सक्रियः आसीत्, कारागार-गमनम् अपि तेन अनुभूतम्; तथापि मातृभूमेः सङ्घर्षे सः अविरतं स्थितः। अद्य आरएसएस व्यक्तिनिर्माणात् राष्ट्रनिर्माणे प्रवृत्तः अस्ति इति तेन उक्तम्।

विविधतायां एकतायाः राष्ट्रं भारतम्डॉ.भागवत: अवदत् यत् भाषा, पन्थः, देवता, परम्पराः च भिन्नाः स्युः, किन्तु यः एकः सूत्रः अस्मान् संयोजयति सः दृढीकरणीयः। सेक्युलर-शासन-व्यवस्थां सः यूरोपीय-अवधारणा मन्यते, भारतस्य स्वभावः तु विविधतायां एकता इति। सत्यं एकेनैव रूपेण न दृश्यते। अस्माकं ऋषयः पूर्वजाश्च विश्व-कल्याण-भावनया अस्य राष्ट्रस्य आधारशिलां न्यस्यन्ति स्म। “हिन्दू” इति शब्दः अस्य देशस्य परिचय:; सः मानवता-विश्व-कल्याण-भावेन परिपूर्णः अस्ति इति तेन उक्तम्।

पूर्वसैनिकान् प्रति आह्वानम्

स: पूर्वसैनिकान् आहूतवान् यत् ते संघस्य शिविरेषु कार्यक्रमेषु च आगत्य स्वयंसेवकानां कार्यं पश्यन्तु, स्व-रुच्यानुसारं सेवा-कार्यक्षु योज्यन्ताम्। देशव्यापिसंघस्य एक-लक्ष-त्रिंशत्-सहस्राधिकाः सेवा-प्रकल्पाः सञ्चालिताः सन्ति; तेषु पूर्वसैनिकाः रुच्यानुसारं सहभागी भवितुं शक्नुवन्ति। पुनः सः स्पष्टं कृतवान्—संघस्य उद्देश्यं न प्रचारः, अपि तु समाज-संघटनं राष्ट्रस्य च उत्थानम्। “संघात् न, समाजात् एव देशः महान् अभवत्—एतत् इतिहासे लेखनीयम्” इति तेन पुनरुक्तम्।

अभिनन्दनं स्वागतं च

कार्यक्रमस्य आरम्भे डॉ.मोहनभागवत: भारत-मातुः चित्रे पुष्पाणि अर्पितवान्, ततः “वन्दे मातरम्” गानम् अभवत्। अनन्तरं जनरल्-गुलाबसिंहरावतः, कर्नेल-कोठियालः, कर्नेल्-मयङ्क: चौबे च प्रावार-आवरणेन पारम्परिक-उष्णिषेन च सरसंघचालकं सम्मानपूर्वकं स्वागतं कृतवन्तः।

उपस्थिति:

अस्मिन् भावपूर्णे प्रेरणादायके च कार्यक्रमे थलसेना, नौसेना, आईटीबीपी, तटरक्षक-बलम् इत्यादि सैन्य-क्षेत्रेभ्यः सेवानिवृत्ताः अनेके पूर्वसैनिकाः अधिकारिणश्च उपस्थिताः आसन्। कार्यक्रमस्य समापनं राष्ट्रिय-गानस्य भावपूर्ण-गायनेन अभवत्।

हिन्दुस्थान समाचार / अंशु गुप्ता