अयोध्यायां ‘रन फॉर राम 2026’ इत्भयस्य भव्यं समापनं, सहस्रं धावकाः अदर्शयन् आस्थायाः शारीरिकसौष्ठवस्य च आदर्शम्
अयोध्या, 23 फ़रवरीमासः (हि.स.)। धर्मनगर्याम् अयोध्यायां रविवासरे ‘रन फॉर राम’ मैराथन २०२६ इत्यस्य चतुर्थः संस्करणः भव्यरूपेण सम्पन्नः। रामकथा-पार्के आयोजिते अस्मिन् कार्यक्रमे देशविदेशेभ्यः सहस्रशः प्रतिभागिनः उपस्थिताः। एषा मैराथन क्रीडा-भारती द्
रन फॉर राम मैराथन के विजेता पुरस्कृत होते हुए


अयोध्या, 23 फ़रवरीमासः (हि.स.)।

धर्मनगर्याम् अयोध्यायां रविवासरे ‘रन फॉर राम’ मैराथन २०२६ इत्यस्य चतुर्थः संस्करणः भव्यरूपेण सम्पन्नः। रामकथा-पार्के आयोजिते अस्मिन् कार्यक्रमे देशविदेशेभ्यः सहस्रशः प्रतिभागिनः उपस्थिताः। एषा मैराथन क्रीडा-भारती द्वारा आयोजिता, या राष्ट्रिय-स्वयंसेवक-संघस्य तत्वावधाने कार्यं करोति।

मैराथनस्य आरम्भः लता-मंगेशकर-चौकात् अभवत् तथा समापनं पुनः रामकथा-पार्के सम्पन्नम्। अस्य आयोजनस्य विषयवस्तु प्राचीन १४-कोसी-परिक्रमा-परम्परायाः प्रेरणया निर्धारिताऽभवत्, या धैर्यस्य अनुशासनस्य आन्तरिक-शक्तेः च प्रतीका मन्यते। अस्मिन् वर्षे विशेषतः महिलानां सहभागितायां उल्लेखनीयवृद्धिः दृष्टा; शताधिकाः महिला-धाविकाः उत्कृष्टं प्रदर्शनं कृतवन्त्यः।

क्रीडा-भारती-उत्तरप्रदेशस्य प्रदेशाध्यक्षः अवनीश-कुमार-सिंहः उक्तवान् यत् चतुर्थसंस्करणस्य सफलता अत्यन्तं गौरवस्य विषयः अस्ति। तेन उक्तं यत् सर्वेषां आयुवर्गाणां जनानां सहभागिता अयोध्यायाः ऊर्जा, अनुशासनं तथा श्रीरामस्य मूल्यानि प्रकाशयति।

अस्मिन् मैराथन-आयोजने चत्वारः वर्गाः आसन्— ४२ कि.मी. पूर्ण-मैराथन, २१ कि.मी. अर्ध-मैराथन, १० कि.मी. धावनम्, तथा ३ कि.मी. मनोरञ्जन-धावनम्। प्रतियोगितायां आर-एफ-आई-डी-प्रौद्योगिक्या व्यावसायिक-समय-निर्णय-व्यवस्था कृता आसीत्।

४२ कि.मी. भारतीय-पुरुष-वर्गे अभिषेक-सोनी प्रथमस्थानं प्राप्तवान्, अन्तरराष्ट्रीय-वर्गे इथियोपिया-देशीयः डेस्ये-एण्डालेव विजयी अभवत्। २१ कि.मी. पुरुष-वर्गे प्रिन्स-राज-यादवः, महिला-वर्गे सोनी-देवी विजेते अभवताम्। १० कि.मी. पुरुष-वर्गे सन्दीप-पालः, महिला-वर्गे अङ्किता विजेते अभवताम्।

अस्मिन् आयोजने समग्रतया पञ्चदश-लक्ष-रूप्यकाणां पुरस्कार-राशिः वितरिता। विजेतृभ्यः तेषां श्रेणी-समयानुसारं दशसहस्र-रूप्यकात् आरभ्य एक-लक्ष-पञ्चविंशति-सहस्र-रूप्यकपर्यन्तं धनराशिः प्रदत्ता।

कार्यक्रमे बहूनां सहयोगी-संस्थानां योगदानम् अपि आसीत्, यथा उत्तरप्रदेश-पर्यटन-विभागः, इफ्को, अमूल, एनबीसीसी-इण्डिया तथा श्रीराम-जन्मभूमि-तीर्थ-क्षेत्र-ट्रस्ट इत्यादयः।

‘रन फॉर राम २०२६’ इत्येतत् पुनः सिद्धं कृतवान् यत् एषा केवलं मैराथन-प्रतियोगिता न, अपितु आस्था, एकता तथा राष्ट्रिय-भावनया सम्बद्धः सशक्तः सांस्कृतिक-स्वास्थ्य-अभियानः अस्ति।

---------------

हिन्दुस्थान समाचार