सिङ्गापुरे जीआईसी–संस्थया सह दीर्घकालिक–निवेशविषये विस्तृतं विमर्शं कृतवान् मुख्यमन्त्री योगी-आदित्यनाथ:
लखनऊनगरम्, २३ फरवरीमासः (हि.स.)। उत्तरप्रदेशराज्यं वैश्विक–निवेश–गन्तव्यरूपेण स्थापयितुं दिशि, मुख्यमन्त्री योगी-आदित्यनाथ: स्वस्य सिङ्गापुर–यात्रायां, प्रमुखतया संप्रभु–निवेश–संस्थया जीआईसी-सह महत्त्वपूर्णां उच्चस्तरीयां सभां कृतवान्। अस्यां सभाया
सिंगापुर में सीएम योगी


लखनऊनगरम्, २३ फरवरीमासः (हि.स.)। उत्तरप्रदेशराज्यं वैश्विक–निवेश–गन्तव्यरूपेण स्थापयितुं दिशि, मुख्यमन्त्री योगी-आदित्यनाथ: स्वस्य सिङ्गापुर–यात्रायां, प्रमुखतया संप्रभु–निवेश–संस्थया जीआईसी-सह महत्त्वपूर्णां उच्चस्तरीयां सभां कृतवान्। अस्यां सभायां जीआईसी–संस्थायाः मुख्य–कार्यकारी–अधिकारी लिम चो किआट तथा तस्य दलम् अपि उपस्थितम् आसीत्। अस्यां चर्चायां उत्तरप्रदेशे जीआईसी–संस्थायाः दीर्घकालिक–निवेशस्य सम्भावनाः व्यापकतया विचारिताः।

मुख्यमन्त्री योगी-आदित्यनाथ: जीआईसी–संस्थां उत्तरप्रदेशे दीर्घकालिक–निवेश–अवसरान् अन्वेष्टुं आमन्त्रयत्, राज्यस्य नीतिगत–स्थैर्यम्, सुशासनम्, सुदृढां विधि–व्यवस्थां, पञ्चविंशति–कोटि–अधिक–विशालां उपभोक्ता–जनसंख्याम्, शीघ्रविकसमानं च अवसंरचना–तन्त्रं प्रमुख–आकर्षण–रूपेण रेखाङ्कितवान्। सः अवदत् यत् उत्तरप्रदेशः अद्य भारतस्य तीव्रतम–विकास–शील–अर्थव्यवस्थायुक्तं राज्यम् अस्ति, तथा च राज्य–सर्वकारः निवेशकानां कृते सुरक्षितं पारदर्शकं निवेश–अनुकूलं च वातावरणं प्रददाति।

मुख्यमन्त्री–कार्यालयेन सूचितं यत् अस्यां सभायां औद्योगिक–परिसरर–मार्गेषु लॉजिस्टिक्स–वेयरहाउसिङ्ग–अवसंरचनायाः विकासः, अक्षय–ऊर्जा तथा ऊर्जा–सञ्चय–परियोजनाः, डेटा–सेण्टर् तथा डिजिटल–अवसंरचना, उदयमान–नगरीय–केन्द्रेषु वाणिज्यिक–रियल–एस्टेट तथा समेकित–नगर–विकासः, एमएसएमई–परिसंस्थायाः अनुरूपेण फिनटेक् तथा डिजिटल–मञ्चाः, भविष्याभिमुख–उद्योगानां कृते कौशल–विकासः—एतेषु क्षेत्रेषु सहकार्य–सम्भावनाः विस्तारतः विमृष्टाः।

मुख्यमन्त्री अवदत् यत् उत्तरप्रदेश–सर्वकारः राज्यं “फ्यूचर्–रेडी” औद्योगिक–आर्थिक–केन्द्ररूपेण विकसितुं दृढतया प्रतिबद्धा अस्ति। प्रदेशे द्रुतगत्या एक्सप्रेस्–वे–जालम्, बहुविध–लॉजिस्टिक्स्–उद्यानानि, रक्षा–परिसरः, डेटा–केन्द्र–उद्यानानि, नूतनानि औद्योगिक–नगराणि च विकसितानि भवन्ति, ये दीर्घकालिक–निवेशकेभ्यः स्थिरान् लाभकरान् च अवसरान् प्रददन्ति।

जीआईसी, या विश्वस्य प्रमुखासु दीर्घकालिक–संप्रभु–निवेश–संस्थासु एकाऽस्ति, भारतदेशे अवसंरचना, रियल–एस्टेट्, फिनटेक् तथा डिजिटल–मञ्च–क्षेत्रेषु सुदृढं निवेश–आधारं धारयति। एतस्मिन् सन्दर्भे मुख्यमन्त्रिणा सह जीआईसी–संस्थया कृता एषा सभा उत्तरप्रदेशे वैश्विक–पूँजी–प्रवाहाय नूतनां दिशां ददाति इति मन्यते। उल्लेखनीयं यत् निवेश–आमन्त्रण–क्रमे एव उपमुख्यमन्त्री केशवप्रसादमौर्य: अद्य यूरोप–प्रवासे अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता