Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, २३ फरवरीमासः (हि.स.)। योगी-आदित्यनाथस्य नेतृत्वे सिंगापुर-प्रवासस्य प्रथमदिने उत्तरप्रदेश-राज्याय निवेश-क्षेत्रे कौशल-विकास-क्षेत्रे च महत्त्वपूर्णाः उपलब्धयः प्राप्ताः। विविधासु सभासु निवेशकैः सह संवादस्य मध्ये अनेके प्रमुखाः अन्ताराष्ट्रिय-संस्थाः तथा निर्माण्य: राज्य-सर्वकारेण सह सन्धि-स्मरणपत्रेषु (एम्–ओ–यू) हस्ताक्षराणि कृतवन्तः। प्रथमदिने समग्रतया १९,८७७ कोटि-रूप्यकाणां निवेश-प्रस्तावेषु सहमति: अभवत्। एते प्रस्तावाः प्रदेशस्य अर्थव्यवस्थायै रोजगार-सृजनाय च अत्यन्तं महत्त्वपूर्णाः मन्यन्ते। वार्तायां मुख्यमन्त्री योगी निवेशकान् आश्वस्तं कृतवान् यत् उत्तरप्रदेश-सर्वकारः पारदर्शी-नीतिगत-नमूना, त्वरित-स्वीकृतयः, उत्तमाः आधारभूत-सुविधाः च निवेशकेभ्यः प्रदातुं दृढतया प्रतिबद्धः अस्ति।
मुख्यमन्त्री-कार्यालयात् सोमवासरे प्राप्त-सूचनानुसारं हस्ताक्षरितेषु सन्धि-स्मरणपत्रेषु एकः प्रमुखः प्रस्तावः यूनिवर्सल-सक्सेस-ग्रुप-संस्थायाः अस्ति। अस्मिन् प्रस्तावे समूह-आवास-योजनासु, लॉजिस्टिक-पार्क-परियोजनासु, डाटा-सेण्टर-परियोजनासु च ६,६५० कोटि-रूप्यकाणां निवेशः प्रस्तावितः। एताभिः परियोजनाभिः शहरी-विकासः, औद्योगिक-क्रियाकलापाः, डिजिटल-अधोसंरचना च नूतनां गतिं प्राप्स्यन्ति इति अपेक्षा अस्ति।एवमेव गोल्डन स्टेट कैपिटल (जीएससी) इत्यनया संस्थया उत्तरप्रदेशे १०० मेगावाट-क्षमतायाः दत्तांश-केन्द्र-स्थापनार्थं ८,००० कोटि-रूप्यकाणां निवेशः घोषित:। एषा परियोजना राज्यं देशस्य अग्रणी-दत्तांश-केन्द्ररूपेण स्थापयितुं महत्त्वपूर्णा भविष्यति।
तथैव प्राइवेट-इन्फ्रास्ट्रक्चर-डेवलपमेंट-ग्रुप (पीआईडीजी) नवीकरणीय-ऊर्जा, हरित-हाइड्रोजन तथा कृषि-सह-सौर-परियोजनासु २,५०० कोटि-रूप्यकाणां निवेशार्थं समझौता-स्मरणपत्रे हस्ताक्षरं कृतवान्। अतिरिक्ततया एवीपीएन लिमिटेड अपि नवीकरणीय-ऊर्जा तथा कृषि-सह-सौर-क्षेत्रे २,७२७ कोटि-रूप्यकाणां निवेश-प्रतिबद्धतां व्यक्तवती। एताः पहलाः उत्तरप्रदेशस्य हरित-ऊर्जा-लक्ष्याणां दृढीकरणे सहायकाः भविष्यन्ति।
सर्वकार: प्रवक्तुः कथनानुसारं मुख्यमन्त्रिणः सिंगापुर-यात्रायाः प्रथमदिने निवेशेन सह कौशल-विकासे अपि विशेषं बलं दत्तम्।
प्राविधिक-व्यावसायिक-शिक्षा-प्रशिक्षणस्य (टीवीईटी) सुदृढीकरणाय आईटीई एजुकेशन सर्विसेज (आईटीईईएस) इत्यनया संस्थया सह सहयोग-सन्धि: हस्ताक्षरिता। अस्यां सहभागितायां आईटीईईएस शैक्षणिक-विकासे, अधोसंरचना-उन्नयने, नेतृत्व-क्षमता-निर्माणे, आईएसक्यू-प्रमाणने, गुण-आश्वासने च परामर्शं प्राविधिक-सहयोगं च प्रदास्यति। अस्य उद्देश्यं उत्तरप्रदेशस्य कौशल-व्यवस्थां वैश्विक-मानदण्डानुसारं विकसितुं भवति।
न अवरोध:, न युद्धम्—इदानीं उत्तरप्रदेशे सर्वं सम्यक् : मुख्यमन्त्री योगी
मुख्यमन्त्री योगी-आदित्यनाथः सिंगापुरे निवसन्तं भारतीय-समुदायम् अपि सम्बोधितवान्। तेन नूतन-भारतस्य नूतन-उत्तरप्रदेशस्य च आत्मविश्वासपूर्णं स्पष्टं चित्रं प्रस्तुतम्। सः अवदत् यत् यः उत्तरप्रदेशः कदाचित् युद्धै: अवरोधै: च परिचितः आसीत्, स एव अद्य विकासस्य, निवेशस्य, आस्थायाः, औद्योगिक-प्रगतयेः वैश्विक-विश्वासस्य च केन्द्रं जातः।
“इदानीं न अवरोध: अस्ति, न युद्धम्—उत्तरप्रदेशे सर्वं सम्यक् अस्ति” इति तेन अभिहितम्। स्वसम्बोधने तेन नूतन-उत्तरप्रदेशस्य परिवर्तितं स्वरूपं, विरासत-विकासयोः संगम:, न्याय-व्यवस्थायां प्राप्तं व्यापकं परिवर्तनं च विस्तरेण निरूपितम्। अस्मिन् अवसरे तेन उपस्थितेभ्यः सर्वेभ्यः आगामिनः होली-पर्वणः शुभाशयाः अपि अर्पिताः।
मुख्यमन्त्री अवदत् यत् देशस्य सर्वाधिक-जनसंख्या-युक्तं राज्यम् उत्तरप्रदेशः अद्य यत् परिवर्तनं अनुभूयते, तत् विगत-नव-वर्षाणां प्रतिबद्धतायाः, सुशासनस्य, दूरदर्शी-नेतृत्वस्य च परिणामः अस्ति। प्रदेशः अद्य न्याय-व्यवस्था, निवेशः, विकासः च—एतेषु विषयेषु आदर्श-रूपेण उदितः। तेन उक्तं यत् नरेन्द्रमोदिन: दृष्टिं भूमौ प्रभावी-रूपेण कार्यान्वयन् उत्तरप्रदेशः “परम्परा-विकासयोः” सन्तुलितं प्रेरणादायकं च उदाहरणं प्रस्तुतवान्।
राम-मन्दिरं केवलं धार्मिक-स्थलं न, अपि तु भारतस्य सांस्कृतिक-मर्यादायाः आत्मगौरवस्य च प्रतीकः इति तेन निरूपितम्। काशी विश्वनाथ-धाम्न: पुनर्विकासः अस्माकं शाश्वत-परम्परायाः आधुनिक-स्वरूपेण प्रतिष्ठापनं करोति, यदा च मथुरा-वृन्दावनस्य पुण्य-भूमिः भारतस्य भक्ति-अध्यात्मयोः जीवंतां अभिव्यक्तिं दर्शयति। समरसतायाः साक्षात् दृश्यं महाकुम्भे द्रष्टुं शक्यते, यत्र कोटिशः श्रद्धालवः एकत्र संगमे आस्थाया: निमज्जनं कुर्वन्ति—न कोऽपि महान्, न कोऽपि लघुः। सर्वे एकस्वरेण “हर-हर गङ्गे” इति उद्घोषं कुर्वन्ति। एषा एव भारतस्य आत्मा, एषा एव तस्य शक्तिः।
मुख्यमन्त्री अवदत् यत् एतादृश्या एव चिन्तनया रणनीतिक-कार्यान्वयनेन च उत्तरप्रदेशस्य अर्थव्यवस्था विगत-नव-वर्षेषु त्रिगुणिता अभवत्, प्रति-व्यक्ति-आयः अपि प्रायः त्रिगुणं वर्धिता। प्रदेशे अधुना ३४-अधिकाः क्षेत्रीय-नीतयः प्रवर्तन्ते तथा ७५,००० एकड-परिमाणस्य भूमिभाण्डारः (लैण्ड-बैङ्क) उपलब्धः अस्ति।
अस्मिन् अवसरे उत्तरप्रदेशस्य वित्त-एवं-संसदीय-कार्य-मन्त्री सुरेशखन्ना, औद्योगिक-विकास-मन्त्री नन्दगोपाल: गुप्ता नंदी, अवस्थापना-एवं-औद्योगिक-विकास-आयुक्तः तथा एसीएस-वित्तम् दीपककुमार:, सिंगापुरे भारतस्य उच्चायुक्तः डॉ.शिल्पक एन.अंबुले, ग्लोबल-इंडियन-विद्यालयस्य संस्थापकः अतुल: च अन्ये अधिकारीगणाश्च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता