सिंगापुरे डीबीएसवित्तकोषस्य मुख्यकार्यकारी अधिकारी अथ मुख्यमंत्री योगी इत्यनयोः उपवेशने वित्तीये हरितशक्तिक्षेत्रे च निवेशविषयिणी चर्चा
लखनऊ, 23 फरवरीमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः सिंगापुर यात्रायां डीएसबी इत्यस्य मुख्यकार्यकारीअधिकारिण्या टैन सू शान महोदया तथा तस्याः दलस्य सह महत्त्वपूर्णां बैठकाम् अकरोत्। अस्यां बैठके डिजिटल बैंकिंग तथा सुलभवित्तीयसेवाः, कौशलविकासः
सिंगापुर में मुख्यमंत्री योगी बैठक करते हुए


लखनऊ, 23 फरवरीमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः सिंगापुर यात्रायां डीएसबी इत्यस्य मुख्यकार्यकारीअधिकारिण्या टैन सू शान महोदया तथा तस्याः दलस्य सह महत्त्वपूर्णां बैठकाम् अकरोत्। अस्यां बैठके डिजिटल बैंकिंग तथा सुलभवित्तीयसेवाः, कौशलविकासः, अर्धचालकनिर्माणम्, हरितऊर्जाक्षेत्रं च इत्यादिषु सहकारसम्भावनासु सकारात्मकविचारविमर्शः अभवत्। मुख्यमन्त्री सिंगापुरमुख्यालयस्थितम् एतत् वैश्विकवित्तीयसंस्थानम् उत्तर प्रदेश राज्ये निवेशसहभागितायाः अवसरान् अन्वेष्टुं आमन्त्रितवान्।

डीबीएस बैंक इत्यनेन उत्तरप्रदेशस्य उदिते ऊर्जा-पारिस्थितिकी-तन्त्रे विशेषरुचिः प्रदर्शिता। विशेषतः हरितहाइड्रोजन, हरितअमोनिया, संपीडितजैवगैस (सीबीजी), सौरऊर्जा इत्यादिषु हरितक्षेत्रेषु सहकारसम्भावनाः विस्तरेण चर्चिताः। अतिरिक्ततया इलेक्ट्रॉनिक्स-निर्माणक्षेत्रे सहकारः, विशेषतः अर्धचालक-चिप-निर्माणाय तैवानदेशीयकम्पनीनां भारतदेशे निवेशप्रोत्साहनस्य सम्भावना अपि चर्चिता।

तत्र सहकारी-बैंकिंग-संरचनायाः डिजिटलीकरणविषये अपि विस्तारतः विमर्शः अभवत्। डीबीएस बैंक इत्यनेन जनपदेषु सहकारी-बैंकानां डिजिटल-सशक्तीकरणेन कृषकाणां कृते उत्तमाः सुलभाः वित्तीयसेवाः प्रदातुं सहयोगे इच्छाऽभिव्यक्ता।

१९६८ तमे वर्षे स्थापितस्य अस्य बैंकस्य समग्रसम्पत्तयः २०२३ तमे वर्षस्य दिसम्बरमासपर्यन्तं प्रायः ७३९ बिलियन अमेरिकी-डॉलर-परिमिताः आसन्। भारतदेशे अस्य पूर्णस्वामित्वयुक्ता सहायकसंस्था १९ राज्येषु प्रायः ३५० स्थानेषु संचालनं करोति।

राज्यसर्वकारस्य प्रवक्ता अवदत् यत् एषा गोष्ठी उत्तरप्रदेशस्य डिजिटल-अर्थव्यवस्था, हरित-विकास-लक्ष्याणि, निवेशकानुकूल-परिसंस्था च सह डीबीएस बैंकस्य भारत-विकास-रणनीतिं संयोजयितुं महत्त्वपूर्णः चरणः अस्ति। मुख्यमन्त्री स्पष्टं कृतवान् यत् उत्तरप्रदेशसर्वकारः पारदर्शिता, नीतिस्थैर्यं, शीघ्रनिर्णयप्रक्रिया च माध्यमेन वैश्विकनिवेशकान् सर्वथा सहयोगितुं प्रतिबद्धा अस्ति।

गौरवनीयम् यत् मुख्यमन्त्री योगी आदित्यनाथस्य राज्ये विदेशीनिवेशप्रोत्साहननीतेः अन्तर्गतं उपमुख्यमन्त्री केशव प्रसाद मौर्य अधुना यूरोपदेशस्य यात्रायां वर्तते।

हिन्दुस्थान समाचार