Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, २३ फरवरीमासः (हि.स.)। रङ्गयुक्ता-एकादश्याः पूर्वं सोमवासरे श्रीकाशीविश्वनाथ-मन्दिर-परिसरे मन्दिरन्यासस्य प्रोत्साहनेन विशेषं धार्मिकं अनुष्ठानम् आयोजितम्। बाबा-विश्वनाथस्य गौणोत्सवात् पूर्वं बाबा-विश्वेश्वरस्य पञ्चवदन-रजत-प्रतिमया सह माता-पार्वत्याः तथा बालस्वरूपिणः भगवत: श्रीगणेशस्य प्रतिमायाः आकर्षकं शृङ्गारं कृतम्। तदनन्तरं मन्दिर-परिसरे स्थितस्य श्रीलक्ष्मीनारायणभगवतः विग्रहस्य समीपे नवनिर्मिते कक्षे वैदिक-मन्त्र-उच्चारणेन विधि-विधानपूर्वकं पूजार्चना कृत्वा विधिवत् प्रतिष्ठा सम्पन्ना।
अनुष्ठानम् आचार्याणां मार्गदर्शनेन शास्त्रीय-परम्परानुसारं सम्पन्नम्। पूजनात् पूर्वं प्रतिमाः विधिपूर्वकं पुष्पैः रुद्राक्ष-मालाभिश्च अलङ्कृताः। ततो भक्त्या सह पूजनं कृतम्। उपस्थिताः श्रद्धालवः अस्मिन् पावनावसरे दर्शनं कृत्वा पुण्य-लाभं प्राप्तवन्तः। मन्दिरन्यासस्य कथनानुसारम् एतत् आयोजनं धार्मिक-आस्थां परम्परां आध्यात्मिक-चेतनां च सुदृढीकर्तुं कृतम्।
हिन्दुस्थान समाचार / अंशु गुप्ता