सर्बानन्द–सोनोवालः वीओसी–पत्तने १५००–कोटि–रूप्यकाणां हरित–डिजिटल–परियोजनानाम् उद्घाटनं कृतवान्
नवदिल्ली, २३ फरवरीमासः (हि.स.)। केन्द्रीय–बन्दरगाह–पोत–परिवहन–जलमार्ग–मन्त्री सर्बानन्दसोनोवाल: सोमवासरे तमिलनाडु–राज्ये स्थिते वीओ-चिदम्बरनार-बन्दरगाह-प्राधिकरण–स्थले १५००–कोटि–रूप्यकाणाम् अधिकमूल्यकानां विविध–परियोजनानाम् उद्घाटनं शिलान्यासं च कृ
तमिलनाडु के तूतीकोरिन में वी.ओ. चिदंबरनार पोर्ट प्राधिकरण में 1500 करोड़ रुपये की परियोजनाओं का उद्घाटन करते केंद्रीय मंत्री सर्बानंद सोनोवाल।


नवदिल्ली, २३ फरवरीमासः (हि.स.)। केन्द्रीय–बन्दरगाह–पोत–परिवहन–जलमार्ग–मन्त्री सर्बानन्दसोनोवाल: सोमवासरे तमिलनाडु–राज्ये स्थिते वीओ-चिदम्बरनार-बन्दरगाह-प्राधिकरण–स्थले १५००–कोटि–रूप्यकाणाम् अधिकमूल्यकानां विविध–परियोजनानाम् उद्घाटनं शिलान्यासं च कृतवान्। अस्मिन् कार्यक्रमे समुद्री–परम्परा–संग्रहालयस्य उद्घाटनं कृतम्। रेल–मार्ग–सड़क–सम्पर्क–परियोजनानां आरम्भः अभवत्। ऊर्जा–हरित–परियोजनानां च आधारशिला अस्थापयत्।

सोनोवालः अवदत् यत् एताः परियोजनाः बन्दरगाहं हरितं आधुनिकं च कृत्वा वैश्विक–प्रतिस्पर्धी–समुद्री–केन्द्ररूपेण विकसयिष्यन्ति। एताभिः परियोजनाभिः बन्दरगाहः भविष्याय सज्जीकृतः भविष्यति। नवाचारस्य प्रोत्साहनं लप्स्यते। बन्दरगाहस्य वैश्विक–प्रतिस्पर्धा–क्षमता दृढा भविष्यति।

तेन उक्तं यत् एताभिः भारतस्य समुद्री–क्षेत्रस्य नूतन: परिचय: (नूतनं वैशिष्ट्यं) लप्स्यते। तेन वीओसी-समुद्री-परम्परा-संग्रहालयं उद्घाटितम्। अयं संग्रहालयः स्वतन्त्रता–सेनानी वीओ-चिदम्बरनारस्य परम्परायै समर्पितः अस्ति। अनेन समुद्री–इतिहासस्य ज्ञानं वर्धिष्यते, पर्यटनस्य च प्रोत्साहनं भविष्यति।

सोनोवालः अवदत् यत् परियोजनासु सौर–ऊर्जा, पवन–ऊर्जा, बैटरी–सञ्चयः (भण्डारणम्) तथा हरित–हाइड्रोजन–परियोजनाः अन्तर्भवन्ति। वीओसी–बन्दरगाहः देशस्य प्रथमः बन्दरगाहः अस्ति, यत्र हरित–हाइड्रोजनस्य उत्पादनं उपयोगः च आरब्धः। एषा पायलट्–परियोजना २०२५–वर्षात् सञ्चालिता अस्ति, तथा २०२९–वर्षपर्यन्तं वाणिज्यिक–स्तरे विकसितुं योजना विद्यते।

तेन उक्तं यत् बन्दरगाहे डिजिटल्–ट्विन्–प्रणाली कार्यान्विता अस्ति। अनेन वास्तविक–समये निरीक्षणं भविष्यति, अनुरक्षणं (रखरखावः) उत्तमं भविष्यति, सञ्चालन–दक्षता च वर्धिष्यते। सुरक्षार्थं एण्टि–ड्रोण–प्रणाली अपि संस्थापिता अस्ति।

सोनोवालः अवदत् यत् आउटर–हार्बर–परियोजनया विशाल–पोतानां सञ्चालन–क्षमता वर्धिष्यते। अनेन व्यापारः वर्धिष्यते, क्षेत्रीय–अर्थव्यवस्था च सुदृढा भविष्यति।आधिकारिक–विवरणानुसारं, २०२५–वर्षस्य एप्रिल–मासात् २०२६–वर्षस्य जनवरी–मासपर्यन्तं बन्दरगाहे कार्गो–हैण्डलिङ् ६–प्रतिशतं वर्धित्वा ३५.९७–मिलियन–टन–पर्यन्तं प्राप्ता। कंटेनर–यातायातः ९.४–प्रतिशतं वर्धित्वा ७.१६–लक्ष–टीईयू–अधिकं अभवत्। तेन उक्तं यत् एताभिः परियोजनाभिः लॉजिस्टिक–व्ययः न्यूनः भविष्यति, निवेशः वर्धिष्यते, आजीविका–अवसराः सृज्यन्ते। अनेन क्षेत्रस्य सामाजिक–आर्थिक–विकासः शीघ्रगत्या प्रवर्तिष्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता