Enter your Email Address to subscribe to our newsletters

कोलकाता, 24 फरवरीमासः (हि.स.)। पश्चिम बंगाल विधानसभानिर्वाचनात् पूर्वम् भारतीय जनतादलस्य राज्यैककं प्रधानमन्त्रिणा नरेन्द्र मोदी लिखितस्य मुक्तपत्रस्य व्यापकवितरणाभियानं प्रारब्धवती। एतत् पत्रं बाङ्ग्लाभाषया हिन्दीभाषया च सज्जीकृतम् अस्ति, तत् च राज्यस्य सर्वेषु मतदातृषु प्रेष्यते।
पत्रे प्रधानमन्त्रिणा मोदिना मुख्यमन्त्री ममता बनर्जी नेतृत्वयुक्तां राज्यसरकारां तथा सत्तारूढाम् अखिल भारतीय तृणमूल कांग्रेस प्रति आरोपः कृतः यत् केन्द्रप्रायोजितयोजनानां लाभात् जनाः वञ्चिताः क्रियन्ते। तेन अपि उक्तं यत् राज्यप्रशासनस्य कथितबाधासु अपि बहवः जनाः एतासां योजनानां लाभं प्राप्तवन्तः।
पत्रस्य आरम्भे प्रधानमन्त्रिणा लिखितम् यत् कतिपयेषु मासेषु पश्चिमबङ्गालस्य निर्वाचनदिशा निर्णीयते, मतदातॄणां सुविचारितनिर्णयः राज्यस्य भाविपिढीनां भविष्यं निर्धारयिष्यति। सः अवदत् यत् राज्यस्य जनाः दीर्घकालं वञ्चनायाः ग्रस्ताः अभवन्, एषा स्थितिः तम् अपि व्यक्तिगतया व्यथयति। तेन “विकसितसमृद्धपश्चिमबङ्गाल” निर्माणस्य प्रतिज्ञा कृता।
प्रधानमन्त्रिणा पत्रे २०१४ वर्षात् अनन्तरं राष्ट्रिय जनतांत्रिक गठबंधन सर्वकारेण आरब्धानां विविधकल्याणकारीविकासयोजनानां उल्लेखः कृतः। राज्यसरकारस्य असहयोगेऽपि एतेभ्यः उपक्रमेभ्यः समाजस्य विभिन्नवर्गाः लाभान्विताः अभवन् इति तस्य मतम्।
पत्रे अपि निर्दिष्टं यत् स्वातन्त्र्योत्तरकाले पश्चिमबङ्गालः देशस्य अर्थव्यवस्थायाः केन्द्रम् आसीत्, किन्तु गतषट्दशकेषु निरन्तरकुप्रशासनतुष्टीकरणराजनीतेः कारणात् राज्यस्य आर्थिकस्थितिः दुर्बला जाता। रोजगारावसराभावात् शिक्षितयुवानः राज्यात् बहिः गन्तुं बाध्यन्ते, महिलासुरक्षायाः विषये अपि चिन्ता वर्तते इति आरोपितम्।
प्रधानमन्त्री स्वामी विवेकानंद, श्री अरविंद, रवीन्द्रनाथ ठाकुर तथा सुभाष चंद्र बोस इत्यादीनां महापुरुषाणां विरासत् स्मारयन् अवदत् यत् यः राज्यः एतान् महान् व्यक्तित्वान् अदात्, सः अद्य अवैधप्रवेशिमहिलासुरक्षाआर्थिकपतनादिचुनौतिभिः सम्मुखीकृतः अस्ति।
पत्रस्य अन्ते प्रधानमन्त्रिणा मोदी महोदयेन मतदातॄन् परिवर्तनार्थं एकतां कर्तुं आह्वानं कृतम्। अन्येषु राज्येषु जनानां जीविकायां उल्लेखनीयः सुधारः जातः, अनेके परिवाराः दरिद्ररेखातः उपरि उत्थिताः इति सः अवदत्। पश्चिमबङ्गालस्य जनाः अपि समानविकासस्य अधिकारीणः सन्ति, अधुना परिवर्तनम् अनिवार्यम् इति तेन प्रतिपादितम्।-------------------
हिन्दुस्थान समाचार