मुकुलरॉय: - चतुर्दशकपर्यन्तस्य आरोह–अवरोहपूर्णस्य राजनैतिक–जीवनयात्रायाः समापनम्
कोलकातानगरम्, २३ फरवरीमासः (हि.स.)। पश्चिमबङ्गालस्य वरिष्ठः राजनीतिज्ञः मुकुलरॉय: रविवासरे अर्धरात्रौ दिवङ्गतः। सः एकसप्ततिवर्षीयः आसीत्। तस्य निधनेन सह पश्चिमबङ्गाल–राज्यस्य राजनीतौ एकस्य युगस्य समापनम् अभवत्। वामपन्थी–सर्वकारस्य सत्ताच्युतौ तथा म
अमित शाह के साथ मुकुल रॉय


ममता के साथ मुकुल


कोलकातानगरम्, २३ फरवरीमासः (हि.स.)। पश्चिमबङ्गालस्य वरिष्ठः राजनीतिज्ञः मुकुलरॉय: रविवासरे अर्धरात्रौ दिवङ्गतः। सः एकसप्ततिवर्षीयः आसीत्। तस्य निधनेन सह पश्चिमबङ्गाल–राज्यस्य राजनीतौ एकस्य युगस्य समापनम् अभवत्। वामपन्थी–सर्वकारस्य सत्ताच्युतौ तथा ममता-बनर्जी–नेतृत्वस्य तृणमूल–काङ्ग्रेसस्य सत्तारोहणे तस्य भूमिका अत्यन्तं महत्त्वपूर्णा आसीत्। समये समये यथोचितं निर्णयं कर्तुं कुशलः मुकुलरॉयः “बङ्गाल–राजनीतेः चाणक्यः” इति प्रसिद्धः आसीत्।

पश्चिमबङ्गाल–राजनीतौ मुकुलरॉयस्य नाम दीर्घकालं प्रभावस्य, सङ्घटन–क्षमतायाः, रणनैतिक–कौशलस्य च प्रतीकरूपेण गृहीतम्। प्रायः चत्वारिंशद्वर्षपर्यन्तं तस्य राजनीतिक–जीवने काङ्ग्रेस–दलात् आरभ्य तृणमूल–काङ्ग्रेस, ततः भारतीय–जनता–पक्षः इत्येषां यात्रा समाविष्टा आसीत्। सः तेषु विरल–नेतृषु एकः आसीत् ये यवनिका–पृष्ठे स्थित्वा सत्तायाः दिशां निर्धारयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति स्म।

काङ्ग्रेसतः पृथक् मार्गः, तृणमूलस्य च आधारः

मुकुलरॉयः स्वस्य राजनैतिक–जीवनस्य आरम्भं युवा–काङ्ग्रेसतः अकरोत्। सङ्घटनात्मक–कार्यक्षेत्रेषु तस्य सक्रियता शीघ्रमेव तं प्रादेशिक–स्तरे परिचितं अकरोत्। सन् १९९८ तमे वर्षे, यदा ममताबनर्जी काङ्ग्रेस्–दलात् पृथक् भूत्वा तृणमूल–काङ्ग्रेसस्य स्थापनां कृतवती, तदा मुकुलरॉयः तया सह स्थितः। तृणमूल–काङ्ग्रेसस्य संस्थापक–सदस्यानां मध्ये गण्यमानः सः दलस्य प्रारम्भिक–संरचनां निर्मातुं प्रमुखां भूमिकां अकरोत्। महासचिव–पदे नियुक्तः सन्, सः भूमि–स्तरे सङ्घटन–विस्तारस्य मुख्य–सूत्रधारः अभवत्। तदा तृणमूल–काङ्ग्रेसस्य कृते राज्य–राजनीतौ स्थान–निर्माणे मुकुलरॉयः प्रमुख–रणनीतिकारः इति मन्यते स्म।

राज्यसभातः केन्द्रीय–मन्त्रित्वपर्यन्तं यात्रा

२००६ तमे वर्षे मुकुलरॉयः प्रथमवारं राज्यसभायाः सदस्यः निर्वाचितः। २००९ तमे वर्षे सः राज्यसभायां तृणमूल–काङ्ग्रेसस्य नेता अभवत् तथा राष्ट्रिय–स्तरे दलस्य स्वरं सुदृढकरणम् आरब्धवान्। केन्द्रीयकाङ्ग्रेस–नेतृत्वे संयुक्त–प्रगतिशील–गठबन्धन–सर्वकारे (यूपीए), यदा तृणमूल–काङ्ग्रेस: तस्य भागः आसीत्, तदा मुकुलरॉयः प्रथम: पोत–परिवहन–राज्यमन्त्री अभवत्।अनन्तरं २०१२ तमे वर्षे तस्मै रेल–मन्त्रिण: दायित्वं प्रदत्तम्। रेल–मन्त्रालये तस्य कार्यकाले यात्रि–सुविधानां परियोजनानां विषये बहवः उद्घोषाः अभवन्। यद्यपि तस्य कार्यकालः अल्पः आसीत्, तथापि सः केन्द्रीय–राजनीतौ तृणमूल–काङ्ग्रेसस्य प्रमुख–मुखेषु एकः अभवत्।

२०११ अनन्तरं नूतना भूमिका

२०११ तमे वर्षे पश्चिमबङ्गाले वाम–मोर्चाया: चतुस्त्रिंशद्वर्षीयः शासनकालः समाप्तः, तृणमूल–काङ्ग्रेसः च सत्तारूढा अभवत्। अस्य ऐतिहासिकं परिवर्तनानन्तरं, दलस्य सङ्घटनं जनपदेषु सुदृढं कर्तुं दायित्वं मुकुलरॉयः ऊढवान्। विविध–दलेभ्यः नेतॄन् तृणमूले सम्मेल्य नूतन–राजनैतिक–समीकरणानां निर्माणे तस्य भूमिका महत्त्वपूर्णा आसीत्। एतेन कारणेन सः “बङ्गाल–राजनीतेः चाणक्यः” इति अधिकं प्रसिद्धः अभवत्।

ममतया सह विवादः, दूरी च

मुकुलरॉयस्य राजनैतिक–जीवनं विवादैः अपि युक्तम् आसीत्। शारदा–चिट्–फण्ड्–प्रकरणे तथा नारद–प्रकरणे अपि तस्य नाम आगतम्। एतेन तस्य प्रतिमायां आघातः अभवत्, दल–नेतृत्वेन सह सम्बन्धेषु अपि शैथिल्यम् आगतम्। अनन्तरं तृणमूल–काङ्ग्रेसमध्ये ममतायाः भातृव्यः अभिषेक–बनर्जी अधिकं महत्त्वं लब्धवान्, यत् मुकुलरॉयस्य मनसि न रुचिकरम् आसीत्। सः एतत् सहितुं न शक्तवान्, शनैः शनैः दलात् दूरं गच्छन्। सन् २०१७ तमे वर्षे तस्य दूरी स्पष्टा अभवत्। नवम्बरमासे २०१७ तमे सः तृणमूल–काङ्ग्रेसं त्यक्त्वा भारतीय–जनता–पक्षे प्रविष्टः— यत् पश्चिमबङ्गाल–राजनीतौ महत् परिवर्तनं मन्यते स्म।

भारतीय–जनता–पक्षे नूतनानि दायित्वानि

भाजपा–दले प्रवेशानन्तरं मुकुलरॉयः राज्ये सङ्घटन–सुदृढीकरणस्य दायित्वं लब्धवान्। तृणमूलात् नेतॄन् आकर्षयितुं तथा विस्तार–रणनीतिं निर्मातुं तस्मै उत्तरदायित्वं प्रदत्तम्। २०१९ तमे लोकसभा–निर्वाचने पश्चिमबङ्गाले ४२ आसनेषु १८ आसनानि विजित्य भाजपा महत्त्वपूर्णं राजनैतिकं सन्देशं दत्तवती। अस्यां सफलतायां मुकुलरॉयस्य रणनैतिक–भूमिका विशेषतया उल्लिखिता अभवत्। २०२१ तमे विधानसभा–निर्वाचने सः कृष्णानगर–उत्तर–आसनेन विधायकः निर्वाचितः। किन्तु कतिपय–मासानन्तरं पुनः तृणमूल–काङ्ग्रेसं प्रत्यागतवान्। अस्मात् दलपरिवर्तनात् वैधानिक–राजनैतिक–विवादः उत्पन्नः, अन्ते च दलबदल–विरोधि–अधिनियमेन सः विधायक–पदात् अयोग्यः घोषितः अभवत्।

अन्तिम–कालः

तृणमूले प्रत्यागत्यापि मुकुलरॉयस्य महत्त्वं पूर्ववत् नाभवत्। स्वास्थ्य–समस्याभिः पीड्यमानः सः शनैः शनैः सक्रिय–राजनीतितः निवृत्तः अभवत्। दीर्घकालं विविध–रोगैः संघर्षं कृत्वा सः किञ्चित्कालं कोमावस्थायाम् अपि आसीत्। मुकुलरॉयस्य राजनैतिक–जीवनं आरोह–अवरोहैः, रणनीतिभिः, महत्त्वाकाङ्क्षाभिः, परिवर्तनशीलैः समीकरणैः च परिपूर्णम् आसीत्। सः तादृशः नेता आसीत् यः मौनेन कार्यं कुर्वन् सत्तायाः दिशां परिवर्तयितुं समर्थः आसीत्। बङ्गालस्य समकालीन–राजनीतौ मुकुलरॉयस्य भूमिकां कदापि उपेक्षितुं न शक्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता