नालंदायां स्ट्रॉबेरीफलस्य कृष्या दृढीभूता ग्रामीणा अर्थव्यवस्था
बिहारशरीफम्, 24 फ़रवरीमासः (हि.स.)। बिहार राज्ये नालंदा जिला अन्तर्गत नूरसराय प्रखंड स्थिते मनारा ग्रामे कृषकाः परम्परागतकृषेः सीमाः भित्त्वा स्ट्रॉबेरीफलस्य कृष्याः प्रति शीघ्रं प्रवर्तन्ते।ग्रामस्य प्रगतिशीलकृषकः राजेश प्रसाद संगोष्ठ्यां उक्तवान्
तकनीकी कृषि कार्य में जुटे किसान


बिहारशरीफम्, 24 फ़रवरीमासः (हि.स.)। बिहार राज्ये नालंदा जिला अन्तर्गत नूरसराय प्रखंड स्थिते मनारा ग्रामे कृषकाः परम्परागतकृषेः सीमाः भित्त्वा स्ट्रॉबेरीफलस्य कृष्याः प्रति शीघ्रं प्रवर्तन्ते।ग्रामस्य प्रगतिशीलकृषकः राजेश प्रसाद संगोष्ठ्यां उक्तवान् यत् रबी-खरीफपरम्परागतफसलाभ्यां पृथक् स्वस्य एकैकस्मिन् एकरे क्षेत्रे स्ट्रॉबेरीकृषिः आरब्धा, यस्मात् प्रतिदिनं उत्तमा नगदायः प्राप्तुं शक्यते। तस्य एषा पहलः अन्येषां कृषकाणां कृते प्रेरणास्रोतः अभवत्।

राजेशप्रसादः वदति यत् आरम्भे जनानां मनसि संशयः आसीत्, किन्तु सम्यग्ज्ञानं आधुनिकतन्त्रज्ञानं परिश्रमश्च आधाय एषा कृषिः सफलतां प्रापिता। तेन क्षेत्रे ड्रिप्-सिञ्चनपद्धतिः अर्थात् टपकसिञ्चनम् उपयुज्यते, येन जलस्य संरक्षणं भवति, पादपानां आवश्यकनमी च सततं लभ्यते। जैविकखादप्रयोगेन समुचितपरिचर्यया च फलस्य गुणवत्तापि उत्तमा भवति।

तस्य मते यदि कृषकाः रबी-खरीफसस्याभ्यां सह नगदीफसलानां कृषिं कुर्वन्ति तर्हि तेषां आयः द्विगुणा भवेत्। स्ट्रॉबेरीफलस्य नगरेषु विशेषतः अधिका मागा अस्ति। स्थानीयविपण्यां सह समीपस्थनगरभ्यः अपि व्यापारीणः प्रत्यक्षं क्षेत्रे आगत्य फलक्रयणं कुर्वन्ति, येन समुचितमूल्यं त्वरितभुगतानं च लभ्यते।

राजेशप्रसादस्य अनुसारं प्रारम्भिकनिवेशानन्तरं स्ट्रॉबेरीकृषेः प्रतिदिनं १० सहस्रात् २० सहस्रपर्यन्तं रूप्यकाणाम् आयः संभवति। तथापि तेन उक्तं यत् नियमितपरिचर्या, समये सिञ्चनम्, रोगनियन्त्रणं, विपण्याः ज्ञानं च अत्यावश्यकम्। सम्यग्मार्गदर्शने प्राप्ते एषा कृषिः लघुमध्यमकृषकाणां कृते अत्यन्तलाभदायिनी भवेत्।

ग्रामस्य अन्ये कृषकाः अपि इदानीं स्ट्रॉबेरीकृषौ रुचिं दर्शयन्ति। राजेशः समयसमये तान् कृषितन्त्रं रोपणविधिं परिचर्यापद्धतिं च शिक्षयति, येन अधिकाधिकाः कृषकाः नगदीफसलाभ्यः सम्बध्य स्वकीयाम् आर्थिकस्थितिं सुदृढां कुर्वन्तु।

---------------

हिन्दुस्थान समाचार