परिवर्तन यात्रया बंगाले शक्ति प्रदर्शनं करिष्यति भाजपादलम्
कोलकाता, 24 फरवरीमासः (हि.स.)। भारतीय जनता पार्टी एतस्मिन् वर्षे भविष्यत् विधानसभानिर्वाचनात् पूर्वं पश्चिम बंगाल राज्ये स्वस्य बहुप्रतीक्षितां “परिवर्तनयात्रां” मार्चमासस्य प्रथमदिनाङ्के आरभितुं सज्जा अस्ति। अस्मिन् अवसरे पक्षः व्यापकस्तरे केन्द्र
सांकेतिक


कोलकाता, 24 फरवरीमासः (हि.स.)। भारतीय जनता पार्टी एतस्मिन् वर्षे भविष्यत् विधानसभानिर्वाचनात् पूर्वं पश्चिम बंगाल राज्ये स्वस्य बहुप्रतीक्षितां “परिवर्तनयात्रां” मार्चमासस्य प्रथमदिनाङ्के आरभितुं सज्जा अस्ति। अस्मिन् अवसरे पक्षः व्यापकस्तरे केन्द्रीयनेतृत्वं क्षेत्रे अवतार्य शक्तिप्रदर्शननीतिं स्वीकृतवान् अस्ति। अष्टचत्वारिंशत् घण्टानां मध्ये न्यूनातिन्यूनं अष्टौ केन्द्रीयमन्त्रिणः राष्ट्रियस्तरीयनेतारश्च राज्यं प्राप्स्यन्ति।

एषा यात्रा राज्यस्य दशसु संगठनात्मकविभागेषु नवसु प्रवर्तिष्यते। केवलं कोलकाता महानगरविभागः अस्याः यात्रायाः बहिः स्थापितः अस्ति, यत्र समापनसमये ब्रिगेडक्रीडांगणे विशालजनसभा आयोजिता भविष्यति।

मार्चमासस्य प्रथमदिनाङ्के यात्रायाः आरम्भः कूचबिहार कृष्णानगर कुल्टी गढ़बेता तथा रायदीघी इत्येतेभ्यः स्थानाभ्यः भविष्यति। द्वितीयदिनाङ्के इस्लामपुर हासन संदेशखाली तथा आमता इत्येतेभ्यः यात्रायाः शुभारम्भः भविष्यति।

केन्द्रीयगृहमन्त्री अमित शाहो मार्चप्रथमदिनाङ्के रायदीघीतः परिवर्तनयात्रायाः हरितध्वजं प्रदास्यति। केन्द्रीयस्वास्थ्यमन्त्री जगत प्रकाश नड्डा तस्मिन्नेव दिने कृष्णानगरतः यात्रायाः उद्घाटनं करिष्यति। रक्षामन्त्री राजनाथ सिंह द्वितीयदिनाङ्के आमतातः यात्राम् आरभिष्यति।

राष्ट्रियाध्यक्षः नितिन नवीन उभयदिनयोः उत्तरबङ्गप्रदेशे स्थित्वा मार्चप्रथमदिनाङ्के कूचबिहारतः तथा द्वितीयदिनाङ्के इस्लामपुरतः यात्रायाः उद्घाटनं करिष्यति। केन्द्रीयशिक्षामन्त्री धर्मेंद्र प्रधान गढ़बेतातः, तथा महिला बालविकासमन्त्री अन्नपूर्णा देवी कुल्टीतः यात्रां प्रारभिष्यते। द्वितीयदिनाङ्के देवेंद्र फडणवीस हासनतः तथा केन्द्रीयकृषिमन्त्री शिवराज सिंह चौहान संदेशखालीतः यात्रां प्रेषयिष्यति।

अस्य पूर्वं नेता प्रतिपक्षः शुभेंदु अधिकारी रायदीघीस्थे आरोपपत्रप्रस्तुतीकार्यक्रमे नेतृत्वं कृत्वा मथुरापुर जयनगर डायमण्डहार्बर इत्येतेषां संगठनात्मकजिलानां सम्बन्धितान् अभ्यर्थनापत्राणि प्रकाशयत्। राज्यव्यापि अन्येषु अपि कार्यक्रमेषु मिथुन चक्रवर्ती अग्निमित्रा पाल अभिजीत गंगोपाध्याय सौमेंदु अधिकारी दिलीप घोष रुद्रनील घोष इत्यादयः नेतारः सहभागिनः अभवन्।

पक्षस्य राज्यसमित्याः वरिष्ठनेता उक्तवान् यत् २०२१ वर्षस्य विधानसभानिर्वाचनस्य विपरीतं, यदा दलपरिवर्तनकार्यक्रमेषु विशेषबलं दत्तम् आसीत्, अस्मिन् समये तादृशेषु आयोजनेषु दूरीकरणनीतिः स्वीकृता अस्ति। परिवर्तनयात्रा शीर्षनेतृत्वस्य शक्तिप्रदर्शनरूपेण २०२६ वर्षस्य निर्वाचनाभियानस्य औपचारिकारम्भरूपेण च प्रस्तुत्यते।

हिन्दुस्थान समाचार