वरिष्ठ पत्रकारः प्रशांतः ‘वंदनीय बालासाहेब ठाकरे आरोग्य रत्न पुरस्कारेण विभूषितः
मुंबई,24फरवरीमासः ( हि.स.) । वरिष्ठपत्रकारः प्रशांत रेखा रविंद्र सिनकर महाराष्ट्रशासनस्य द्वारा स्वास्थ्यजागरूकता सार्वजनिकस्वास्थ्यविषये विद्वत्पूर्णलेखनं समुदायकेन्द्रितं ज्ञानवर्धनकार्यं च कृते प्रतिष्ठितेन वंदनीय बालासाहेब ठाकरे आरोग्य रत्न प
Vandniya Bala saheb thakare arogya ratn award Prashant


मुंबई,24फरवरीमासः ( हि.स.) ।

वरिष्ठपत्रकारः प्रशांत रेखा रविंद्र सिनकर महाराष्ट्रशासनस्य द्वारा स्वास्थ्यजागरूकता सार्वजनिकस्वास्थ्यविषये विद्वत्पूर्णलेखनं समुदायकेन्द्रितं ज्ञानवर्धनकार्यं च कृते प्रतिष्ठितेन वंदनीय बालासाहेब ठाकरे आरोग्य रत्न पुरस्कारनाम्ना सम्मानितः। मुम्बई नगरे आयोजिते महति समारोह अवसर विशेषे तस्मै एषः पुरस्कारः प्रदाय तस्य उत्कृष्टकार्यं राज्यस्तरेण सम्मानितम्। एषः क्षणः ठाणे जनपदस्य कृते गौरवपूर्णः ऐतिहासिकश्च आसीत्।

मुम्बईस्थिते यशवंतराव चव्हाण सेंटर इत्यत्र आयोजिते विशेषकार्यक्रमे राज्यस्य स्वास्थ्य मन्त्री प्रकाश अबितकर, स्वास्थ्य राज्यमन्त्री मेघना साकोरे बोर्डिकर, उपमहापौरः संजय घाडी, स्वास्थ्यसचिवः ई रविंद्रन, स्वास्थ्य आयुक्ता कादंबरी बलकवड़े, निदेशकः नितिन अंबाडेकर अन्ये च गणमान्यजनाः प्रशांत सिनकरं पदकपत्रप्रमाणपत्रं नगदराशिं च प्रदाय सम्मानितवन्तः। समारोहः विविधक्षेत्रेषु प्रसिद्धजनानां स्वास्थ्यअधिकारिणां पत्रकाराणां सामाजिककार्यकर्तॄणां च उपस्थितौ उत्साहेन सम्पन्नः।

राज्य स्वास्थ्य शिक्षा तथा संचार विभागः पुणे इत्यस्य पक्षतः राज्यस्तरीया चयनसमितिः तस्य कार्यस्य मान्यतां दत्त्वा वर्ष 2024 25 कृते एतत् सम्मानं प्रदत्तवती। सार्वजनिकस्वास्थ्यविषये तस्य निरन्तरं लेखनं समाजे स्वास्थ्यसम्बद्धां सकारात्मकचिन्तनधारां निर्मातुं तस्य योगदानं शासनस्य विविधस्वास्थ्ययोजनानां प्रभावीप्रस्तुतीकरणं च दृष्ट्वा सः चयनितः।

गतषट्विंशतिवर्षेभ्यः पत्रकारिताक्षेत्रे सक्रियः प्रशांत सिनकर स्वास्थ्य पर्यावरण जलसंरक्षण मानसिकस्वास्थ्य संक्रामकरोग सार्वजनिकस्वास्थ्यनीति इत्यादिषु विषयेषु गभीरं प्रभावी च लेखनं कृतवान्। संकटकाले उत्तरदायित्वपूर्णपत्रकारितां निर्वहन् सः समाजाय यथार्थसूचनां दिशा प्रेरणां च दत्तवान्।

सामाजिकहितं केन्द्रे स्थाप्य कृता तस्य पत्रकारिता एषः आधिकारिकः राज्यस्तरीयः सम्मानः इति मन्यते। विविधस्तरेभ्यः एषा भावना व्यक्ता यत् एषः पुरस्कारः ठाणे जनपदे पत्रकारितायाः गौरवं वर्धिष्यते। ठाणे जनपद पत्रकार संगठनम् अपि डॉ प्रशांत सिनकरं अस्य पुरस्कारस्य कृते अभिनन्दितवन्।

---------------

हिन्दुस्थान समाचार