Enter your Email Address to subscribe to our newsletters

पूर्वीसिंहभूम:, २४ फरवरीमास: (हि.स.)। जनपद-प्रशासनेन सञ्चालितस्य परियोजना-उल्लास-अभियानस्य अन्तर्गतं मङ्गलवासरे घाटशिला-अनुमण्डल-चिकित्सालये मिर्गी-रोगिणां कृते विशेषं स्वास्थ्य-शिविरम् आयोजितम्। अस्मिन् शिविरे अष्टाविंशत्यधिकशतं (१२८) जनाः पञ्जीकृताः, तेषां विशेषज्ञ-चिकित्सकैः परीक्षणं कृतं च आवश्यक-परामर्शेन सह निःशुल्क-औषधानि अपि उपलब्धीकृतानि।
पूर्वी सिंहभूम-जनपद-प्रशासनस्य प्रयत्नेन प्रवर्तितस्य अस्य अभियानस्य उद्देश्यं मिर्गी-पीडितानां रोगिणां समयेन चिह्नितं कृत्वा तेषां कृते वैज्ञानिकं समुचितं च उपचारं उपलब्धीकरणम् अस्ति। शिविरे एम्स, नवदिल्ली-विशेषज्ञ-चिकित्सकानां दलं उपस्थितम् आसीत्; तैः रोगिणां विस्तरेण स्क्रीनिङ्ग् कृत्वा तेषां स्वास्थ्य-स्थित्यानुसारं उपचार-सम्बन्धीन: परामर्शा: प्रदत्ता:। चिकित्सकैः परिजनानाम् अपि मिर्गी-सम्बद्धानां सावधानतानां तथा नियमित-औषध-सेवनस्य महत्त्वस्य विषये सूचना प्रदत्ता।
उपायुक्त कर्ण-सत्यार्थिनः प्रयत्नेन जनपद-स्वास्थ्य-समितेः माध्यमेन जनपदे विविधेषु प्रखण्डेषु क्रमशः एतादृशाणि शिविराणि आयोज्यन्ते, येन दूरस्थ-ग्रामीण-क्षेत्रेषु निवसतां आवश्यकतावतां रोगिणां कृते अपि उत्तमाः स्वास्थ्य-सुविधाः सुलभाः भवन्ति। प्रशासनस्य लक्ष्यं मिर्गी-सदृशीं व्याधिं प्रति समाजे प्रसृताः भ्रान्तयः निष्कास्य वैज्ञानिक-चिन्तनपूर्वकं उपचार-विषये जन-जागरूकतावर्धनम्।
अस्यैव क्रमस्य अन्तर्गतं घाटशिला-परिसरे तथा समीपवर्तिषु ग्रामीण-क्षेत्रेषु वीथीनाटकस्य माध्यमेन जागरूकता-अभियानः अपि सञ्चालितः। कलाकारैः प्रस्तुतिभि: एषः सन्देशः दत्तः यत् मिर्गी न दैवीयः न च अन्धविश्वास-सम्बद्धा व्याधिः, अपि तु चिकित्सकीय-स्थितिः अस्ति, यस्य नियमित-औषध-सेवनात् परामर्शात् च सफलः उपचारः सम्भवः।
हिन्दुस्थान समाचार / अंशु गुप्ता