Enter your Email Address to subscribe to our newsletters

पूर्वीसिंहभूमि:, २४ फरवरीमासः (हि.स.)। झारखण्ड–सर्वकारेण मङ्गलवासरे प्रस्तुतस्य वित्त–विवरणस्य विषये राज्यस्य पूर्व–मुख्यमन्त्री रघुवरदास: अवदत् यत्— एतत् वित्त–विवरणम् सामान्य–जनानां अपेक्षाः पूरयितुं पूर्णतया असफलम् अस्ति।
रघुवर–दासः अवदत् यत्— वित्तविवरणे महद्भिः संख्यकै: क्रीडां दर्शयित्वा जनतां भ्रामयितुं प्रयत्नः कृतः। केवलं विविध–योजनाभ्यः महती–राशेः आवंटन–घोषणया एव विकासः सुनिश्चितो न भवतीति सः अवदत्।
पूर्व–मुख्यमन्त्रिणा प्रश्नः कृतः— किं सर्वकारेण पूर्व–वित्तविवरणे घोषितानां योजनानां राशेः सम्यक् तथा प्रभावी उपयोगः कृतः? कियत् योजनाः भूमौ अवतरिताः? कियद्भ्यः लाभार्थिभ्यः तासां वास्तविकः लाभः लब्ध:? एतेषां प्रश्नानां उत्तरं सर्वकारेण दातव्यमिति सः अवदत्।
रघुवर–दासः अवदत् यत्— कस्यापि वित्त–विवरणस्य सफलता योजनानां समये पारदर्शक–रीत्या च क्रियान्वयने आश्रिता भवति। यदि आवंटिता राशि: न सम्यगुपयुज्यते, तर्हि सा केवलं कर्गद–घोषणा एव भवति। अस्मिन् वर्तमाने वित्तविवरणे दृढ–कार्य–योजनाया: तथा प्रभावी–नियशरीक्षण–तन्त्रस्य स्पष्टं दृश्यं न दृश्यते इति सः आरोपं कृतवान्।
रघुवर–दासः अवदत् यत्— अस्मिन् वित्तविवरणे निर्धनानां, आदिवासिनां, कृषकाणां, महिलानां तथा यूनां अपेक्षाः उपेक्षिताः सन्ति। विशेषतया यूनां रोजगार–सृजन–विषये न कश्चन प्रभावात्मक: अथवा दृढ:–प्रयत्न: दृश्यते। राज्ये बेरोजगारी गम्भीरा समस्या अस्ति, किन्तु तां निवारयितुं वित्त–विवरणे किमपि स्पष्टं मार्गचित्रं न प्रस्तुतम् इति सः अवदत्।
पूर्व–मुख्यमन्त्रिणा सर्वकारं प्रति आह्वानं कृतं यत्— सा केवलं घोषणासु न, अपि तु परिणाम–प्रदानस्य दिशि दृढान् उपायान् करोतु। अस्य वित्त–विवरणस्य निराशाजनकत्वं निर्दिश्य सः अवदत् यत्— एतत् राज्यस्य समग्र–विकासं गतिं दातुं समर्थं न दृश्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता