Enter your Email Address to subscribe to our newsletters

रांची, 24 फरवरीमासः। झारखंड विधानसभायाः वित्तीयप्रस्तावसत्रस्य पञ्चमे दिने वित्तमन्त्री राधा कृष्ण किशोर वित्तीयवर्षाय २०२६–२७ कृते १ लक्ष ५८ सहस्र ५६० कोटिरूप्यकाणां बजट् प्रस्तुतवान्। एषः प्रस्तावो गतवर्षात् प्रायः ९ प्रतिशताधिकः अस्ति। अस्मात् पूर्वं हेमंत सोरेन नेतृत्वे २०२५–२६ वित्तीयवर्षे १ लक्ष ४५ सहस्र कोटिरूप्यकाणां बजट् प्रस्तुतम् आसीत्।
वित्तमन्त्रिणा प्रस्तुतराजस्वे कृषिक्षेत्रे संलग्नानां महिलानां कृते नूतनयोजनायाः घोषणा कृता। सः अवदत् यत् एषः बजट् दरिद्र किसान आदिवासी महिला च इत्यादीनां सर्वेषां वर्गाणाम् आकाङ्क्षाः पूरयिष्यति। “अबुआ दिशोम” इति नाम्ना अयं बजट् झारखण्डवासिनां मुखेषु हास्यं जनयिष्यति, दरिद्राणां अश्रूणि अपि अपोक्ष्यति। महिला-कृषक-खुशहाली-योजना आरभ्यते, अस्याः कृते २५ कोटिरूप्यकाणि विनियोजितानि।अग्रिमवित्तीयवर्षे १०० नूतनानि सीएम-स्कूल-ऑफ-एक्सीलेंस विद्यालयानि उद्घाटयिष्यन्ते। झारखण्डः खनिजसंसाधनेन समृद्धः अस्ति। अत्र देवघरस्थितः बाबा बैद्यनाथमन्दिरः, राजरप्पामन्दिरं, नेतरहाट इत्यादयः लोकप्रियपर्यटनस्थलानि सन्ति। राज्यसरकारः समावेशिविकासाय प्रतिबद्धा अस्ति।
वित्तमन्त्रिणा केन्द्रसर्वकारे प्रति आरोपः कृतः यत् राज्याय पर्याप्ता वित्तीयसाहाय्यता न दत्ता। केन्द्रीयकरभागे ५००० कोटिरूप्यकाणि न प्राप्तानि, अनुदानरूपेण ११००० कोटिरूप्यकाणि अपि न प्राप्तानि इति तेन उक्तम्। विकसितभारत-रोजगार-आजीविका-मिशन कारणात् राज्याय ५६४० कोटिरूप्यकाणां अतिरिक्तभारः वहनीयः अस्ति। कोयलापूर्तेः प्रतिदाने सार्वजनिकक्षेत्रकम्पनीभ्यः १.३६ लक्ष कोटिरूप्यकाणां बकायाराशिः न दत्ता इति अपि तेन निर्दिष्टम्।
२०२६–२७ वित्तीयवर्षे राजस्वव्ययाय १ लक्ष २० सहस्र ८५१ कोटि ९० लक्ष रूप्यकाणि, पूंजीगतव्ययाय ३७ सहस्र ७०८ कोटि १० लक्ष रूप्यकाणि प्रस्तावितानि। राज्यस्य स्वकरराजस्वात् ४६ सहस्र कोटिः, अकरराजस्वात् २० सहस्र ७०० कोटिः, केन्द्रीयसाहाय्यात् १८ सहस्र २७३ कोटि ६६ लक्ष रूप्यकाणि, केन्द्रीयकरभागात् ५१ सहस्र २३६ कोटि ३८ लक्ष रूप्यकाणि, लोकऋणात् २२ सहस्र ४९ कोटि ९६ लक्ष रूप्यकाणि, अन्यस्रोतसः ३०० कोटिरूप्यकाणि प्राप्यन्ते इति अनुमानम्। राजकोषीयघाटा १३ सहस्र ५९५ कोटि ९६ लक्ष रूप्यकाणि, यत् अनुमानितजीएसडीपीस्य २.१८ प्रतिशतं भवति।
राज्यस्य जीएसडीपी २०२४–२५ वर्षे प्रायः ५ लक्ष १६ सहस्र कोटिरूप्यकाणि आसीत्। पञ्चवर्षेषु तस्य द्विगुणीकरणस्य लक्ष्यं निर्धारितम्। कृषि उद्योग भौतिकसंरचना वित्तक्षेत्र स्वास्थ्य शिक्षा कौशलविकास सामाजिकसुरक्षा इत्यादिषु विशेषबलं दास्यते।
महिला-कृषक-खुशहाली-योजनायां एकीकृतकृषिपद्धत्या अद्यतनतन्त्रज्ञानसहाय्यं विपणनमञ्चेन संयोजनं च भविष्यति। नकदीफसलविकासविस्तारयोजनायाः कृते १९ कोटि ८८ लक्ष रूप्यकाणि विनियोजितानि। प्रत्येकविधानसभाक्षेत्रे सहकारिविपणनसंकुलसौरशीतगृह-निर्माणाय १६२ कोटि २० लक्ष ९० सहस्र रूप्यकाणि प्रस्तावितानि।
राज्यस्य १७ राजकीयपॉलिटेक्निकसंस्थानानि तथा ६ नूतनपॉलिटेक्निकसंस्थानानि जेएचआईटी रूपेण विकसितुं प्रस्तावः अस्ति। चतरा-जिलायां डॉ भीमरावअम्बेडकरविश्वविद्यालयस्य स्थापना भविष्यति। सर्वेषु राजकीयचिकित्सामहाविद्यालयेषु पीईटी सीटी स्कैनयन्त्राणि स्थाप्यन्ते, २४ जिलासदरचिकित्सालयेषु मैमोग्राफी यन्त्राणि स्थापितानि भविष्यन्ति, सर्वत्र कैथलैब स्थापना अपि भविष्यति। ७५० अबुआदवाखाना उद्घाटयितुं लक्ष्यं निश्चितम्।
औद्योगिकप्रशिक्षणसंस्थानेषु कृत्रिमबुद्धिविषये प्रशिक्षणकार्यक्रमाः आरभ्यन्ते। मुख्यमंत्रीग्रामसडकयोजनायां १००० कोटिरूप्यकाणि, ग्रामसेतुपरियोजनायां ७३० कोटिरूप्यकाणि प्रस्तावितानि।
विश्वआर्थिकमञ्चद्वारा १ लक्ष २४ सहस्र २३० कोटिरूप्यकाणां निवेशप्रस्तावाः प्राप्ताः, येन ४५ सहस्र रोजगारावसराः सृज्येरन्। पर्यटनक्षेत्रे रांचीस्थितदशम जोन्हा हुंडरू जलप्रपातेषु ग्लाससेतु रोपवे निर्माणम्, रजरप्पा पतरातु नेतरहाट देवघर पलामू च क्षेत्रेषु पर्यटनविकासकार्याणि करिष्यन्ते।
बालसम्बद्धयोजनानां कृते १० सहस्र ७९३ कोटि १६ लक्ष रूप्यकाणि विनियोजितानि। लैङ्गिकबजट् अन्तर्गतं ३४ सहस्र २११ कोटि २७ लक्ष रूप्यकाणि विनियोजितानि।वित्तीयप्रस्तावषणानन्तरं विधानसभाध्यक्षः रवींद्रनाथ महतो सभायाः कार्यवाहीं प्रातः ११ वादनपर्यन्तं स्थगितवान्।---------------
हिन्दुस्थान समाचार