Enter your Email Address to subscribe to our newsletters

रांची,24 फरवरीमासः (हि.स.)। मुख्य निर्वाचन आयुक्तः ज्ञानेश कुमारः मङ्गलवासरे राष्ट्रियं गोलमेजसम्मेलनम् उद्घाटितवान्। एतत् सम्मेलनं सप्तविंशतिवर्षानन्तरं आयोज्यते, यस्मिन् निर्वाचन आयोगः तथा राज्य निर्वाचन आयुक्ताः एकत्र समागताः सन्ति।ज्ञानेश कुमारः भारतमण्डपे आयोजिते कार्यक्रमे उक्तवान् यत् राष्ट्रीयहितं संवैधानिकसमन्वयं च मनसि निधाय निर्वाचन आयोगः राज्य निर्वाचन आयोगैः सह संयुक्तरूपेण कार्यं कुर्यात् तथा प्रत्येकस्मिन् निर्णयेस्मिन् मतदाता केन्द्रे स्थापनीयः।
अस्मिन् अवसरे निर्वाचन आयुक्तौ डॉ एस एस संधुः तथा डॉ विवेक जोशी अपि सहभागिनः सम्बोधितवन्तौ विचारविमर्शस्य रूपरेखां प्रस्तुतवन्तौ च। आयोगेन लोकतंत्राणां संगम नामकस्य ग्रन्थस्य अपि लोकार्पणं कृतम्।
उल्लेखनीयम् अस्ति यत् सम्मेलनस्य अन्तर्गतं ईवीएम ईसीआईनेट तथा मतदाता सूची साझाकरण विषये प्रस्तुतयः भविष्यन्ति। विविधेषु राज्येषु केन्द्रशासितप्रदेशेषु च निर्वाचन अधिकारी मतदाता सूची प्रबन्धनस्य सुव्यवस्थापनाय संस्थागत समन्वयस्य वृद्धये च चर्चा करिष्यन्ति।
एतेषां चर्चानां मुख्यं केन्द्रम् एक मतदाता सूची इति अवधारणा अस्ति, यस्य उद्देश्यं विविधेषु संवैधानिकादेशैः शासितेषु अधिकारक्षेत्रेषु मतदाता प्रदत्तानां एकरूपता सुनिश्चितं कर्तुम् अस्ति।---------------
हिन्दुस्थान समाचार