Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 24 फ़रवरीमासः (हि.स.)।
भारतस्य प्रधानमन्त्री नरेन्द्रमोदी २५ फरवरी तः द्विदिवसीयां राजकीयां यात्रां कर्तुम् इज़रायलदेशं गच्छति। अस्यां यात्रायां सः स्वस्य इज़रायलीयसमकक्षेण नेतन्याहूना सह व्यापकां द्विपक्षीयवार्तां करिष्यति तथा इज़रायलीयसंसदं नेसेट् नाम सभां सम्बोधयिष्यति।
विदेशमन्त्रालयस्य अनुसारं प्रधानमन्त्रिणः स्थानीयसमयानुसारं बुधवासरे प्रातः १२:४५ वादने तेलअवीव नगरं प्राप्स्यति। आगमनोपरान्तं उभयोः प्रधानमन्त्रिणोः मध्ये संक्षिप्तं मेलनं भविष्यति। प्रथमदिने प्रधानमन्त्री नेसेट्सभां सम्बोध्य भारतीयमूलोत्पन्नैः सह सामुदायिककार्यक्रमे भागं ग्रहीष्यति तथा प्रौद्योगिकीप्रदर्शनीम् अपि अवलोकयिष्यति। रात्रौ सः प्रधानमन्त्री नेतन्याहू द्वारा आयोजिते निजी रात्रिभोजे सहभागं करिष्यति।
द्वितीयदिने २६ फरवरी तिथौ प्रधानमन्त्री मोदी यरुशलम्नगरस्थितं याद्वाशेम् इति होलोकॉस्टस्मारकं गत्वा नाजीअत्याचारैः निहतानां लक्षशः यहूदीजनानां स्मृतौ श्रद्धाञ्जलिं अर्पयिष्यति। ततः परं सः इज़रायलदेशस्य राष्ट्रपतिना इसहाकहर्जोगेन सह द्विपक्षीयवार्तां करिष्यति। उभयोः देशयोः प्रधानमन्त्रिणोः मध्ये प्रतिनिधिमण्डलस्तरीया वार्ता अपि भविष्यति। वार्तानन्तरं नवोन्मेषविज्ञानप्रौद्योगिकी कृत्रिमबुद्धिमत्ता साइबरसुरक्षा क्वांटमप्रौद्योगिकी इत्यादिषु क्षेत्रेषु महत्त्वपूर्णसम्झौतापत्रेषु हस्ताक्षराः भविष्यन्ति इति सम्भावना अस्ति।
प्रधानमन्त्री यात्राकाले भारतीयसमुदायस्य यहूदीसमुदायस्य च सदस्यैः सह संवादं करिष्यति। एषा यात्रा रणनीतिकप्रौद्योगिकनवोन्मेषक्षेत्रेषु सहयोगस्य सुदृढीकरणाय महत्त्वपूर्णः चरणः मन्यते।
गत नववर्षेषु एषा प्रधानमन्त्रीमोदिनः द्वितीया इज़रायलयात्रा भविष्यति। ४ तः ६ जुलाई २०१७ पर्यन्तं तेन ऐतिहासिकी इज़रायलयात्रा कृता आसीत्, या कस्यापि भारतीयप्रधानमन्त्रिणः प्रथमायात्रा आसीत्। तस्यां यात्रायां द्विपक्षीयसम्बन्धाः ‘रणनीतिकसाझेदारी’ इति स्तरं प्रति उन्नीताः। अनन्तरं जनवरी २०१८ मासि नेतन्याहू भारतदेशं आगतः।
वर्ष २०२३ तः २०२६ पर्यन्तं उभयोः नेतृयोः मध्ये नियमितः दूरभाषसंवादः अभवत्, यस्मिन् क्षेत्रीयस्थितिः आतंकवादः पश्चिमएशियास्थितिः द्विपक्षीयसहयोगः च चर्चिताः। गत जनवरीमासि उभाभ्यां नववर्षशुभकामनाः आदानप्रदानं कृत्वा क्षेत्रीयस्थितेः समीक्षा कृता।
भारतइज़रायलयोः सम्बन्धेषु रक्षा सुरक्षा च प्रमुखः स्तम्भः अस्ति। नवम्बर २०२५ मासि भारतस्य रक्षासचिवस्य इज़रायलयात्राकाले रक्षा-सहयोगसम्बद्धे महत्त्वपूर्णे सम्झौतापत्रे हस्ताक्षराः कृताः, येन सामरिकसहयोगः अधिकं सुदृढः जातः। व्यापारनिवेशक्षेत्रेषु अपि उल्लेखनीया प्रगति दृश्यते। सितम्बर २०२५ मासि इज़रायलदेशस्य वित्तमन्त्रिणः भारतयात्राकाले द्विपक्षीयनिवेशसम्झौतापत्रे हस्ताक्षराः अभवन्, यस्य उद्देश्यः निवेशसंरक्षणम् आर्थिकसहयोगवर्धनं च अस्ति।
उभयोः देशयोः मध्ये स्टार्टअप् संयुक्तअनुसन्धानविकासपरियोजनाः भारतइज़रायलऔद्योगिकअनुसन्धाननवोन्मेषनिधिः कृत्रिमबुद्धिमत्ता साइबरसुरक्षा इत्यादिषु क्षेत्रेषु दृढः सहयोगः विद्यते। कृषिक्षेत्रे अपि दीर्घकालिकः सहयोगः अस्ति। भारतस्य विभिन्नराज्येषु स्वीकृतानां ४३ उत्कृष्टताकेन्द्राणां मध्ये ३५ पूर्णतया सञ्चालितानि सन्ति, यत्र आधुनिककृषितन्त्राणि सिंचनप्रणाल्यः जलप्रबन्धनतकनीकाः च प्रवर्त्यन्ते। अप्रैल २०२५ मासि इज़रायलस्य कृषिमन्त्रिणः भारतयात्राकाले कृषिक्षेत्रे संशोधितसहयोगसम्झौता २०२४-२६ संयुक्तकार्ययोजना च हस्ताक्षरिते।
इज़रायलदेशे ४१ सहस्राधिकाः भारतीयमूलोत्पन्नाः निवसन्ति। नवम्बर २०२३ मासि उभयोः देशयोः मध्ये भारतीयश्रमिकाणां सुरक्षितवैधअस्थायिरोजगारसुविधार्थं रूपरेखासम्झौता हस्ताक्षरितः। तस्य अन्तर्गतं अद्यावधि २० सहस्राधिकाः भारतीयाः इज़रायलदेशं गताः।
भारतदेशेन १३ अक्टूबर २०२५ तिथौ अमेरिका देशस्य राष्ट्रपतिना डोनाल्डट्रम्प् द्वारा घोषितस्य गाज़ासंघर्षसमापनसम्बद्धस्य व्यापकयोजनायाः स्वागतं कृतम् तथा क्षेत्रे न्यायसंगतस्थायिशान्त्याः प्रयत्नानां समर्थनं पुनरुक्तम्।
भारत इज़रायल यूएई अमेरिका इत्येतेषां देशानां समूहे आई2यू2 इति समूहस्य सदस्याः सन्ति, यः खाद्यसुरक्षा नवीकरणीयऊर्जा व्यापार अवसंरचना इत्यादिषु क्षेत्रेषु सहयोगवर्धनाय मंचः अस्ति।
प्रधानमन्त्रीमोदिनः इज़रायलयात्रा रक्षा प्रौद्योगिकी व्यापार क्षेत्रीयसहयोग इत्यादीनां व्यापककार्यसूचीनां प्रगत्यर्थं महत्त्वपूर्णः अवसरः इति दृश्यते।
--------------
हिन्दुस्थान समाचार