ग्वालियर–नगरे अद्य अप्रेन्टिसशिप्–युवा–सङ्गमः तथा रोजगार–मेलापक: आयोजितः
ग्वालियरनगरम्, २४ फरवरीमासः (हि.स.)। मध्यप्रदेशस्य ग्वालियर–नगरे यूनां कृते रोजगारावसरान् उपलब्धीकर्तुं अद्य मङ्गलवासरे प्रातः ११ वादनात् जनपद–रोजगार–कार्यालये रोजगार–स्वरोजगार–अप्रेन्टिसशिप्–युवा–सङ्गमः आयोजितः भवति। अस्मिन् रोजगार–मेलापके निजी–क्
रोजगार मेला (फाइल फोटो)


ग्वालियरनगरम्, २४ फरवरीमासः (हि.स.)। मध्यप्रदेशस्य ग्वालियर–नगरे यूनां कृते रोजगारावसरान् उपलब्धीकर्तुं अद्य मङ्गलवासरे प्रातः ११ वादनात् जनपद–रोजगार–कार्यालये रोजगार–स्वरोजगार–अप्रेन्टिसशिप्–युवा–सङ्गमः आयोजितः भवति। अस्मिन् रोजगार–मेलापके निजी–क्षेत्रस्य विविधाः निर्माण्य: आकर्षक–वेतनै: नियुक्ति–प्रक्रियायै आगच्छन्ति।

जनपद–रोजगार–कार्यालयात् प्राप्त–सूचनानुसारं, युवा–सङ्गमे नियुक्ति–कार्याय आगच्छन्त्याः निर्माण्य:— क्विक आईटी सॉल्यूशन इन कंसल्टेंसी, रेपिडो प्राइवेट लिमिटेड, आई नोक्स, पेटीएम सर्विस प्राइवेट लिमिटेड, टाटा स्ट्राइव स्किल डवलपमेंट, आयसर अकादमी, ईगल सिक्योरिटी, चेकमेट सिक्योरिटी, भारत पे प्राइवेट लिमिटेड, बजाज केपिटल प्राइवेट लिमिटेड, ए०एन०डी० सोलर प्राइवेट लिमिटेड, जॉब्स फेयर नाच प्राइवेट लिमिटेड, प्रेम मोर्टस प्राइवेट लिमिटेड, जोमैटो फूड प्राइवेट लिमिटेड, किस्पी प्राइवेट लिमिटेड इत्यादयः सन्ति।

एताभिः निर्माण्य: सुरक्षा–रक्षकः, प्रशिक्षणार्थी–कार्यकर्ता, यन्त्र–चालकः, सहायक–प्रबन्धकः, सम्बन्ध–प्रबन्धकः, उप–प्रबन्धकः, विद्युत्कर्मी, अभिकर्ता, अप्रेन्टिस–ट्रेनी, विक्रय–कार्यकारी, क्षेत्रीय–विक्रय–कार्यकारी, कार्यालय–प्रबन्धनम्, सुरक्षा–प्रबन्धनम्, पर्यवेक्षकः, भण्डार–पालः, कार्यालय–सहायकः, सहायकः, सुरक्षा–जवानः, पर्यटन–मार्गदर्शकः, सुपरवाइज़रः, टेली–कॉलरः, वाहन–चालकः इत्यादिषु पदेषु विभिन्न–क्षेत्रेषु नियुक्तिं करिष्यन्ति।

अस्मिन् रोजगार–मेलापके १८ वर्षेभ्यः ३५ वर्षपर्यन्तं आयुवर्गस्य यूनः सहभागं कर्तुं शक्नुवन्ति। वेतनमानं १०,००० रुप्यकात् ४५,००० रुप्यकपर्यन्तं देयं भविष्यति।प्लेसमेण्ट्–ड्राइव्–मध्ये सहभागाय यूनः समग्र–आइडी, रोजगार–पञ्जीकरण–क्रमाङ्कः, शैक्षणिक–योग्यता–सम्बद्ध–प्रमाणपत्राणि तथा जीवनवृत्तान्तः (बायोडाटा) सह उपस्थिताः भवितव्यम्। रोजगार–मेलापके उपस्थितानां युवक–युवतीनां कृते कार्यालयतः यात्रा–भत्ता न देया।

हिन्दुस्थान समाचार / अंशु गुप्ता