Enter your Email Address to subscribe to our newsletters

उज्जैननगरम्, २४ फरवरीमासः (हि.स.)। मध्यप्रदेशस्य उज्जैन–नगरे अद्य मङ्गलवासरे भारतीयडाकविभागद्वारा ग्रामीण–डाक–सेवक (जी.डी.एस.) सम्मेलनम् आयोजितं भवति। सायं ५ वादनात् डॉ.मोहनयादवस्य मुख्यातिथ्ये आयोज्यमानस्य अस्य सम्मेलनस्य अध्यक्षतां ज्योतिरादित्य सिंधिया—केन्द्रीयः संचार–तथा उत्तर–पूर्व–क्षेत्र–विकास–मन्त्री—करिष्यति।
कार्तिकमेलापकप्रांगणे आयोज्यमाने अस्मिन् कार्यक्रमे विशिष्टातिथिरूपेण केन्द्रीय–महिला–एवम् बाल–विकास–राज्यमन्त्री सावित्री ठाकुर, प्रदेशस्य जल–संसाधन–मन्त्री तुलसीराम: मिलावट:, उज्जैन–सांसदः अनिलफिरोजिया, इन्दौर–सांसदः शंकरलालवानी, विधायकः अनिलजैन: (कालूहेडा) इत्यादयः अन्ये जनप्रतिनिधयः च सहभागं करिष्यन्ति।
जनसम्पर्क–अधिकारी अरुणकुमारराठौर: अवदत् यत् अस्य सम्मेलनस्य उद्देश्यं ग्रामीण–डाक–सेवकानां समर्पणं सेवां च सम्मानयितुं भवति। ते ग्रामीण–क्षेत्रेषु भारत–डाक–संस्थायाः मेरुदण्डा: इव सन्ति। जनान् संयोजयितुं तथा ग्रामीण–भारते डाक–बैंकिङ्ग–बीमा–सेवानां विस्तारणं तेषां महत्त्वपूर्णां भूमिकां स्वीकरतम् अपि सम्मेलनस्य उद्देश्यं वर्तते।कार्यक्रमे केन्द्रीयः संचार–मन्त्री ज्योतिरादित्य–सिंधिया ग्रामीण–डाक–सेवक–समुदायेन सह संवादं करिष्यति। सः आधुनिक–नागरिक–केन्द्रित–डाक–जालस्य स्वदृष्टिकोणं प्रकाशयिष्यति तथा ग्रामीण–समुदायेषु शासकीय–वित्तीय–सेवानां प्रदाने विभागं लाभ–स्थितिं प्रति नेतुं तेषां भूमिकां अधिकं सुदृढीकर्तुं प्रेरयिष्यति। सम्मेलनस्य अन्तर्गतं डाक–पार्सल–वितरणे, नूतन–बचत–खातानां उद्घाटने, डाक–जीवन–बीमा (पी.एल.आई.) तथा ग्रामीण–डाक–जीवन–बीमा (आर.पी.एल.आई.)–नीतिषु, ग्रामीण–क्षेत्रेषु लाभार्थिभ्यः प्रत्यक्ष–भुगतानादिषु च उत्कृष्ट–श्रेष्ठ–कार्य–निष्पादनं कृतवन्तः ग्रामीण–डाक–सेवकाः सम्मानिताः भविष्यन्ति।
कार्यक्रमे डाकसेवाविभागस्य सदस्यः (कार्मिक) सुबेदुकुमार: स्वैन:, डी.डी.जी. (स्थापना) राजकुमार:, निदेशकः (ग्रामीण–डाक–सेवक) रवि: पाहवा, मध्यप्रदेश–परिमण्डलस्य मुख्य–पोस्ट–मास्टर–जनरलः विनीतमाथुर:, इन्दौर–परिक्षेत्रस्य पोस्ट–मास्टर–जनरलः प्रीति: अग्रवाल:, निदेशकः (डाक–सेवाः, मुख्यालयः) आर.एस.रघुवंशी, जबलपुर–परिक्षेत्रस्य निदेशकः अजयसिंह: तथा भोपाल–डाक–लेखा–उपनिदेशकः आशुतोष सती अपि उपस्थिताः भविष्यन्ति। अस्मिन् कार्यक्रमे मध्यप्रदेश–परिमण्डलस्य विविध–सम्भागेभ्यः ६५०० तः ७००० पर्यन्तं ग्रामीण–डाक–सेवकाः सहभागं करिष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता