Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २४ फरवरीमासः (हि.स.)। मध्यप्रदेशस्य नवीनं च नवीकरणीयं ऊर्जा–मन्त्री राकेश: शुक्ला अद्य मङ्गलवासरे प्रधानमन्त्री सूर्य–घर–मुफ्त–बिजली–योजना अन्तर्गतं ‘सोलर–रथेन सह मोबाइल–बूथ–वैन’ इत्यस्य शुभारम्भं करिष्यति। मन्त्री शुक्ला अपराह्न २:०० वादनात् ऊर्जाभवनम्, शिवाजी नगरम्, भोपालस्थितात् सोलर–रथं हरित–ध्वज–प्रदर्शनेन सह प्रस्थानाय प्रेषयिष्यति।
नवीकरणीय–ऊर्जा–विभागेन सूचितं यत् उक्त: सोलर–रथः भोपाल–नगरे सप्तदिनीयं मोबाइल–बूथ–शिविरम् इव सञ्चालित: भविष्यति। अनेन रथेन नागरिकैः योजना–संबद्धाः सेवा–विधयः—लोड, नेट–मीटरिंग, ग्रिड–कनेक्टिविटी, ऋण–सुविधा तथा ऑन–द–स्पॉट–पञ्जीकरणादयः—एकस्मिन् स्थले उपलब्धा: भविष्यन्ति। एतत् शिविरम् डिस्कॉम्, धनागारा: तथा नगर–निगमेन सह आयोज्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता