राष्ट्रपतिः द्रौपदी मुर्मुः अद्य आरभ्य २७ फरवरीमासपर्यन्तं महाराष्ट्र–झारखण्ड–राजस्थान–राज्यानां भ्रमणं करिष्यति
नवदिल्ली, २४ फरवरीमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मु: अद्य आरभ्य २७ फरवरीमासपर्यन्तं देशस्य त्रिषु राज्येषु—महाराष्ट्रे, झारखण्डे, राजस्थाने—भ्रमणकार्यक्रमे स्थास्यति। अस्मिन् अवसरे सा स्वास्थ्य–आध्यात्मिक–सैन्यकार्यक्रमेषु सहभागं करिष्यति। र
राष्ट्रपति द्रौपदी मुर्मु


नवदिल्ली, २४ फरवरीमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मु: अद्य आरभ्य २७ फरवरीमासपर्यन्तं देशस्य त्रिषु राज्येषु—महाराष्ट्रे, झारखण्डे, राजस्थाने—भ्रमणकार्यक्रमे स्थास्यति। अस्मिन् अवसरे सा स्वास्थ्य–आध्यात्मिक–सैन्यकार्यक्रमेषु सहभागं करिष्यति।

राष्ट्रपतिभवनस्य सूचनानुसारं, राष्ट्रपतिः अद्य मुंबई–नगरे स्थिते पीडी-हिंदुजा-चिकित्सालये ‘सेविंग् लाइव्स् एण्ड् बिल्डिङ्ग् अ हेल्दीयर् भारत’ इति राष्ट्रव्यापिनः अभियानस्य उद्घाटनं करिष्यति। अस्य अभियानस्य उद्देश्यं देशव्यापिनां स्वास्थ्य-जागरूकतायाः वर्धनं तथा उत्तमानां चिकित्सासुविधानां प्रोत्साहनं च अस्ति।

२५ फरवरीमासे राष्ट्रपतिः शेगांव–नगरे आयोजिते ‘राष्ट्रीय आरोग्य मेलापक: २०२६’ इत्यस्मिन् मुख्यातिथिरूपेण सहभागं करिष्यति। ततः नागपुर–नगरे ब्रह्माकुमारीज–संस्थया आयोजितस्य ‘एकता–विश्वासाभ्यां महाराष्ट्रस्य स्वर्णिम–युगः’ इति कार्यक्रमस्य राज्यस्तरीय–शुभारम्भ–समारोहेषु अपि सा भागं ग्रहीष्यति।

२६ फरवरीमासे राष्ट्रपतिः झारखण्ड–राज्यस्य जमशेदपुर–नगरे श्रीजगन्नाथ-आध्यात्मिक एवं सांस्कृतिक-चैरिटेबल-केन्द्र-न्यासस्य श्रीजगन्नाथमंदिरस्य भूमिपूजन–समारोहेषु सम्मिलिता भविष्यति। सा मणिपाल-टाटा-चिकित्सा-महाविद्यालयम् अपि अवलोकयिष्यति।भ्रमणस्य अन्तिमदिने २७ फरवरीमासे राष्ट्रपतिः राजस्थान–राज्यस्य पोखरण–क्षेत्रे आयोजितस्य ‘एक्स वायुशक्ति:’ इति सैन्याभ्यासस्य अवलोकनं करिष्यति। अयं अभ्यासः भारतीयवायुसेनायाः मारक–क्षमतायाः तथा परिचालन–कौशलस्य प्रदर्शनं करोति।

हिन्दुस्थान समाचार / अंशु गुप्ता