Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 24 फरवरीमासः (हि.स.)।
गतसप्ताहे नवदिल्ली नगरे आयोजितस्य एआई शिखर सम्मेलनस्य समापनसमये प्रकाशितं ‘नई दिल्ली घोषणापत्रम्’ इदानीं पर्यन्तं विश्वस्य ९१ देशैः अन्ताराष्ट्रियसंगठनैश्च समर्थितम् अस्ति।
इलेक्ट्रॉनिक्स तथा सूचना प्रौद्योगिकी मन्त्रालयस्य अनुसारं भारतदेशेन अस्य मंचस्य माध्यमेन समानप्रवेशं वैश्विकसहकार्यं च आधारितं ‘सर्वेभ्यः कृत्रिमबुद्धिमत्ता’ इति स्वविजनस्य सफलं नेतृत्वं कृतम्। २१ फरवरी पर्यन्तं अस्मिन् घोषणापत्रे ८८ देशाः तथा द्वौ प्रमुखौ अन्तरराष्ट्रीयसंगठनौ—यूरोपीयसङ्घः अन्ताराष्ट्रियकृषिविकासकोषश्च—स्वीकृतिं प्रदत्तवन्तौ आस्ताम्।
अस्य सामूहिकवैश्विकदृष्टिकोणस्य समर्थनं कुर्वत्सु देशेषु अमेरिका ब्रिटेन रूस चीन फ्रान्स जर्मनी जापान दक्षिणकोरिया ब्राजील सऊदीअरब यूएई इत्यादयः शक्तिशालिनः राष्ट्राः समाविष्टाः सन्ति।
नवीनतमसूचनानुसारं अन्ये त्रयः देशाः अपि अस्य घोषणापत्रस्य समर्थनाय सम्बद्धाः सन्ति—बाङ्ग्लादेशः कोस्टारिका ग्वाटेमाला च। एतेषां योगेन हस्ताक्षरकर्तॄणां संख्या ९१ देशानां संगठनानां च पर्यन्तं वर्धिता अस्ति।
मन्त्रालयस्य वक्तव्यानुसारं एतत् घोषणापत्रं सप्त प्रमुखसिद्धिषु केन्द्रितम् अस्ति। तेषु लोकतान्त्रिकप्रसारसम्बद्धं घोषणापत्रम्, वैश्विकप्रभावसाझामञ्चः, विश्वसनीयप्रणालीनां साझाभण्डारः, वैज्ञानिकसहकार्यस्य अन्तरराष्ट्रीयजालम्, सामाजिकसशक्तीकरणमञ्चः, कार्यबलविकासमार्गदर्शिका, लचीला दक्षकृत्रिमबुद्धिमत्तायाः मार्गदर्शकसिद्धान्ताः च अन्तर्भवन्ति।
घोषणापत्रस्य अन्तर्गतं आधारभूतसंसाधनानां प्रति किफायतीप्रवेशः सुनिश्चितः भविष्यति, येन विकासशीलदेशाः स्वकीयस्थानीयावश्यकतानुसारं नवोन्मेषं कर्तुं समर्थाः भविष्यन्ति। स्वास्थ्यशिक्षाकृषिक्षेत्रेषु कृत्रिमबुद्धिमत्तायाः उपयोगेन महान् आव्हानानां सामूहिकसमाधानं अन्वेष्टुं संकल्पः अपि कृतः अस्ति।
---------------
हिन्दुस्थान समाचार