Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 24 फरवरीमासः (हि.स.)।
नरेन्द्र मोदी मंगलवासरे संस्कृतसुभाषितं सहकृत्य नवाचारक्षेत्रे प्रतिभायाः परिश्रमस्य च महत्वं विवृतवान्। सः उक्तवान् यत् केवलं प्रतिभा पर्याप्ता न भवति, सफलताप्राप्तये निरन्तरप्रयत्नः अनिवार्यः अस्ति।
प्रधानमन्त्री ‘एक्स’ इत्यस्मिन् सामाजिकमाध्यममञ्चे लिखितवान्—
“यथैकेन न हस्तेन तालिका सम्प्रपद्यते।
तथोद्यमपरित्यक्तं न फलं कर्मणः स्मृतम्॥”
अस्य सुभाषितस्य अर्थः अस्ति— यथा एकेन हस्तेन ताडनं न शक्यते, तथा एव प्रयत्नवर्जितस्य कर्मणः फलं न लभ्यते। केवलं क्षमता वा प्रतिभा वा पर्याप्ता न भवति। यावत् मानवः परिश्रमं निरन्तरप्रयत्नं च न करोति, तावत् सः स्वकर्मणः अपेक्षितं परिणामं न प्राप्नोति।
---------------
हिन्दुस्थान समाचार