अग्रिम जामिन्यै उच्चन्यायालयं प्राप्नोत् स्वामी अविमुक्तेश्वरानंदः
लखनऊ, 24 फ़रवरीमासः (हि.स.)। यौनउत्पीडनस्य आरोपं समुपस्थितं वहन् स्वामी अविमुक्तेश्वरानन्द सरस्वती अधुना स्वस्य अग्रिमजामिनार्थं इलाहाबाद उच्चन्यायालयस्य शरणं गतवान्। प्राथमिकी अभिलेखिता अनन्तरं संभावितग्रहणात् आत्मरक्षणार्थं शंकराचार्येण उच्चन्य
स्वामी अविमुक्तेश्वरानंद सरस्वती


लखनऊ, 24 फ़रवरीमासः (हि.स.)।

यौनउत्पीडनस्य आरोपं समुपस्थितं वहन् स्वामी अविमुक्तेश्वरानन्द सरस्वती अधुना स्वस्य अग्रिमजामिनार्थं इलाहाबाद उच्चन्यायालयस्य शरणं गतवान्। प्राथमिकी अभिलेखिता अनन्तरं संभावितग्रहणात् आत्मरक्षणार्थं शंकराचार्येण उच्चन्यायालये अग्रिमजामिनयाचिका प्रस्तुता।

शंकराचार्येण अधिवक्तृभ्यः राजर्षि गुप्त, सुधांशु कुमार तथा श्रीप्रकाश इत्येतेषां माध्यमेन उच्चन्यायालये याचिका समर्पिता। अस्याः विषये शीघ्रमेव श्रवणं भवितुमर्हति।

वास्तवतः तुलसीपीठाधीश्वरस्य स्वामी रामभद्राचार्यस्य शिष्यः आशुतोष ब्रह्मचारी इत्यनेन धारा 173 4 अन्तर्गतं जिलान्यायालये प्रार्थनापत्रं दत्तम्। अस्य प्रकरणस्य श्रवणानन्तरं एडीजे रेप एंड पोक्सो विशेषन्यायालयस्य न्यायाधीशः विनोद कुमार चौरसिया झूंसी पुलिसं प्रति स्वामी अविमुक्तेश्वरानन्द सरस्वती इत्यादीनां विरुद्धं अभियोगं पञ्जीकृत्य विवेचनां कर्तुं आदेशं दत्तवान्।

न्यायालयस्य अस्य आदेशस्य पालनार्थं पुलिसद्वारा अभियोगः पञ्जीकृतः। अतः शंकराचार्यस्य तस्य सहचरसंन्यासिनां च कदाचित् अपि ग्रहणं सम्भाव्यते।

---------------

हिन्दुस्थान समाचार