उदयपुरे सत्यार्थ प्रकाश शताब्दी समारोहः समाचरितः , स्वामिनश्श्रद्धानंदस्य जीवनेन प्रेरणां स्वीकर्तुम् आह्वानम्
उदयपुरम्, 24 फ़रवरीमासः (हि.स.)। मेवाड़स्य पावनभूमौ महर्षेः स्वामी दयानन्द सरस्वती विरचितस्य अमरग्रन्थस्य ‘सत्यार्थप्रकाश’ इत्यस्य सृजनस्थल्यां उदयपुरनगरे रविवासरे सत्यार्थप्रकाशस्य शताब्दीवर्षोपलक्ष्ये भव्यः समारोहः आयोजितः। गुलाबबागस्थिते हाथी
समारोह


उदयपुरम्, 24 फ़रवरीमासः (हि.स.)।

मेवाड़स्य पावनभूमौ महर्षेः स्वामी दयानन्द सरस्वती विरचितस्य अमरग्रन्थस्य ‘सत्यार्थप्रकाश’ इत्यस्य सृजनस्थल्यां उदयपुरनगरे रविवासरे सत्यार्थप्रकाशस्य शताब्दीवर्षोपलक्ष्ये भव्यः समारोहः आयोजितः।

गुलाबबागस्थिते हाथीवाला पार्क इत्यत्र आयोजिते कार्यक्रमे विश्वहिन्दूपरिषदः राष्ट्रीयप्रवक्ता विनोद बंसल सम्बोधनं कृत्वा अवदत् यत् देशः समाजश्च कट्टरपन्थिनां धर्मान्धमानसिकतायाः प्रति सजगौ भवितुमर्हतः।

तेन उक्तं यत् 1926 तमे वर्षे आर्यनेता राष्ट्रसन्तः स्वामी श्रद्धानन्द रोगावस्थायां गोलीप्रहारेण हतः। एतादृशाः घटनाः इतिहासस्य अङ्गं सन्ति, ताभ्यः पाठं गृहीत्वा समाजेन जागरूकतया स्थितव्यम्।

तेन स्वामी श्रद्धानन्दस्य जीवनं सामाजिकसमरसतायै स्वराज्याय स्वधर्माय स्वभाषायै नारीसशक्तीकरणाय गुरुकुलीयशिक्षाप्रणाल्यै वैदिकज्ञानविज्ञानप्रसाराय च समर्पितम् आसीत् इति निरूपितम्। तस्य जीवनादर्शाः अद्यापि समाजाय मार्गदर्शनं कुर्वन्ति इति अपि उक्तम्।

कार्यक्रमस्य अध्यक्षतां प्रसिद्धः आर्यसंन्यासी स्वामी सुमेधानन्द सरस्वती अकरोत्। समारोहस्य प्रसङ्गे दर्शनाचार्य विमलेश आर्य, श्रीमद् दयानन्द सत्यार्थप्रकाश न्यासस्य अध्यक्षः अशोक आर्य, स्वामी देवव्रत सरस्वती, आचार्य आर्य नरेश, आचार्या सूर्या चतुर्वेदा, प्रकाश आर्य, जितेन्द्र भाटिया इत्यादयः बहवः विद्वांसः विदुषीश्च स्वविचारान् व्यक्तवन्तः।

वक्तारः स्वामी श्रद्धानन्दस्य जीवनात् प्रेरणां गृहीत्वा राष्ट्रधर्मयोः रक्षणाय समर्पितभावेन कार्यं कर्तुम् आह्वानं कृतवन्तः।

समारोहे बहुसंख्यकाः श्रद्धालवः आर्यसमाजस्य अनुयायिनः च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार