Enter your Email Address to subscribe to our newsletters


चेन्नई, 24 फ़रवरीमासः (हि.स.)। तमिलनाडुराज्यस्य दिवंगता पूर्वमुख्यमन्त्री जे जयललिता इत्यस्याः अष्टसप्ततितमे जन्मदिवसे प्रधानमन्त्री नरेन्द्र मोदी तथा केन्द्रीयगृहमन्त्री अमित शाह श्रद्धाञ्जलिं अर्पितवन्तौ। प्रधानमन्त्री तमिलभाषया श्रद्धाञ्जलिसन्देशं प्रकाशितवान्।
प्रधानमन्त्री मोदी स्वस्य एक्स पूर्वट्विटर पृष्ठे अलिखत् यत् जयललिता करिश्मायुक्ता नेतृ उत्कृष्टा प्रशासिका च आसीत्। तस्याः जीवनं दृढसंकल्पेन अटूटइच्छाशक्त्या च परिपूर्णम् आसीत्। मुख्यमन्त्रीरूपेण तया महिलासशक्तिकरणस्य सामाजिकन्यायस्य सर्वसमावेशककल्याणकारीयोजनानां च माध्यमेन तमिलनाडौ उत्कृष्टं प्रशासनं प्रदत्तम्। प्रधानमन्त्री उक्तवान् यत् करुणा दृढता च तस्याः व्यक्तित्वस्य विशेषगुणौ स्तः, तया सह सम्पन्नाः संवादाः सः हर्षेण स्मरति।
प्रधानमन्त्री एतदपि अवदत् यत् अस्मिन् मासि प्रसारिते मन की बात कार्यक्रमे तेन जयललितायाः उल्लेखः कृतः, तस्य कार्यक्रमस्य दृश्यांशः अपि साझा कृतः।
केन्द्रीयगृहमन्त्री अमित शाह स्वसन्देशे अवदत् यत् जयललितायाः दरिद्रजनकल्याणाय महिलाधिकाररक्षणाय च समर्पितप्रयत्नाः तमिलनाडोः विकासाय नूतनां दिशं प्रदत्तवन्तः। तेन उक्तं यत् तस्याः शासनस्य लाभाः समाजस्य अन्तिमव्यक्तिपर्यन्तं प्राप्ताः, तस्याः सार्वजनिकजीवने समर्पणं सदा प्रेरणादायकं भविष्यति।
प्रधानमन्त्री पूर्वम् अपि मन की बात कार्यक्रमे उक्तवान् यत् समाजजनकल्याणाय कार्यं कुर्वन्तः जनाः सदा जनानां हृदयेषु जीविताः भवन्ति। तेन जयललितायाः मातृणां महिलानां च कल्याणाय कृतानां योजनानां विधिव्यवस्थारक्षणप्रयत्नानां च प्रशंसा कृता। मोदी उक्तवान् यत् तया सह प्रत्येकं मिलनं संवादश्च अद्यापि तस्य मनसि ताजगीयुक्तः अस्ति, तस्याः स्पष्टचिन्तनं तस्याः विशेषगुणः आसीत्।--------
हिन्दुस्थान समाचार