Enter your Email Address to subscribe to our newsletters

- सिंगापुरभ्रमणस्य द्वितीयदिने उत्तर प्रदेशं वैश्विकनिवेशस्य एकपरतया उपहारः ।
लखनऊ, 24 फरवरीमासः (हि. स.)।
मुख्यमंत्रिणो योगिनः आदित्यनाथस्य सिङ्गापुरदेशीयभ्रमणे द्वितीये दिने अद्य उत्तरप्रदेशराज्याय वैश्विकनिवेशनस्य अपरं वरदानं प्राप्तम्। तस्य नेतृत्वे उत्तरप्रदेशसर्वकारेण विमानसेवासम्बद्धस्य अग्रणीसंस्थया एआई सैट्स इत्यनेन सह महत्त्वपूर्णः एमओयू इत्यस्य सहमतिः हस्ताक्षरिता। अस्य करारस्य अनुसारं संस्था गौतमबुद्धनगरस्थिते जेवरप्रदेशे नोएडा इंटरनेशनल एयरपोर्ट इत्यत्र द्वे प्रमुखे परियोजने स्थापयिष्यति एकं अत्याधुनिकं कार्गोकम्पसम् अपरं च विश्वस्तरीयं विमानभोजनशालाम्। एतयोः परियोजनयोः कृते संस्था ४४५८ कोटिरूप्यकाणि निवेशं करिष्यति।
जेवरविमानस्थानकं उत्तरभारते कार्गोकेन्द्रं भविष्यति। करारानुसारं एआई सैट्स जेवरविमानस्थानकपरिसरे अत्याधुनिकं कार्गोकम्पसं निर्मास्यति। एतत् कार्गोकम्पस न केवलं उत्तरप्रदेशस्य अपि तु समग्रउत्तरभारतस्य वायुमार्गीयपरिवहनस्य तथा लॉजिस्टिक्स क्षेत्रस्य प्रमुखं केन्द्रं भविष्यति। अस्य परियोजनायाः फलतः निर्यात आयात क्रियासु विशेषतः इलेक्ट्रॉनिक्स औषधनिर्माणकृषिउत्पादादिक्षेत्रेषु विशेषलाभः भविष्यति। जेवरविमानस्थानकं बहुविधसंपर्कसुविधया सह विकसितं भवति येन एषः कार्गोकम्पसः अन्ताराष्ट्रियव्यापारस्य रणनीतिककेन्द्ररूपेण प्रतिष्ठां प्राप्स्यति।
अस्य करारस्य द्वितीयमुख्यनिवेशरूपेण नोएडान्ताराष्ट्रियविमानस्थानके अत्याधुनिकविश्वस्तरीयविमानभोजनशाला स्थापिता भविष्यति। एषा भोजनशाला नोएडा इंटरनेशनल एयरपोर्टतः सञ्चालितानां विमानानां कृते उच्चगुणवत्तायुक्तं भोजनं प्रदास्यति। अत्र सिद्धं भोजनं न केवलं जेवरविमानस्थानके उपयुज्यते अपि तु समग्रउत्तरभारतस्य विभिन्नविमानस्थानकेषु अपि प्रेषितं भविष्यति। अनेन क्षेत्रे अन्नप्रक्रियाक्षेत्रस्य तथा आपूर्तिशृङ्खलाजालस्य सुदृढता भविष्यति तथा सहस्रशः प्रत्यक्षाप्रत्यक्षजीविकावसराः सृज्यन्ते।
सिङ्गापुरभ्रमणे अस्य रणनीतिकमहत्त्वं विद्यते। अस्य यात्रायाः मुख्योद्देश्यः वैश्विकनिवेशकान् उत्तरप्रदेशस्य सम्भावनाभिः सह संयोजयितुम् अस्ति। द्वितीये दिने सम्पन्नः अयं करारः राज्यस्य विमानन लॉजिस्टिक्स तथा सेवा क्षेत्रे महानुपलब्धिरूपेण मन्यते। जेवरविमानस्थानकस्य सञ्चालनारम्भे सति एषः कार्गोकम्पसः तथा विमानभोजनसुविधा उत्तरभारतस्य आर्थिकपरिदृश्यं नूतनदिशां दास्यतः तथा प्रदेशं अन्ताराष्ट्रियमानचित्रे अधिकं सुदृढं स्थापयिष्यतः।
---------------
हिन्दुस्थान समाचार