मुख्यमंत्री योगिनः भ्रमणे - सिंगापुरेण सह उत्तरप्रदेशस्य रणनीतिकसहकारिता, इन्वेस्ट यूपी व एससीई इत्यनयोः सहमतिः हस्ताक्षरिता
-संस्थागतक्षमतया, नीतिगतया आधारशीलया, डिजिटलपरिवर्तनेन च सह सम्मिल्य करिष्यते कार्यम् सिंगापुरम्/लखनऊ, 24 फरवरीमासः (हि.स.)। मुख्यमन्त्री योगीआदित्यनाथस्य सिंगापुरदेशदौरे द्वितीयदिने उत्तरप्रदेशसरकारस्य निवेशप्रोत्साहनसंस्था ‘इन्वेस्ट यूपी’ तथा
सीएम योगी के नेतृत्व में सिंगापुर कोऑपरेशन एंटरप्राइज (एससीई) के साथ हुआ करार


सीएम योगी के नेतृत्व में  सिंगापुर कोऑपरेशन एंटरप्राइज (एससीई) के साथ हुआ करार


-संस्थागतक्षमतया, नीतिगतया आधारशीलया, डिजिटलपरिवर्तनेन च सह सम्मिल्य करिष्यते कार्यम्

सिंगापुरम्/लखनऊ, 24 फरवरीमासः (हि.स.)। मुख्यमन्त्री योगीआदित्यनाथस्य सिंगापुरदेशदौरे द्वितीयदिने उत्तरप्रदेशसरकारस्य निवेशप्रोत्साहनसंस्था ‘इन्वेस्ट यूपी’ तथा सिंगापुरसरकारस्य हितप्रतिनिधिसंस्था ‘सिंगापुर कोऑपरेशन एंटरप्राइज’ (एससीई) इत्येतयोः मध्ये महत्त्वपूर्णं समझौतापत्रम् (एमओयू) हस्ताक्षरितम्।

एषः सम्झौत: उत्तरप्रदेशे संस्थागतक्षमतायाः नीतिगतढाञ्चस्य च सुदृढीकरणाय, तथैव पारिस्थितिकतन्त्रस्य विकासार्थं दीर्घकालिकरणनीतिकसाझेदारीस्थापनाय महत्त्वपूर्णः चरणः मन्यते।

सततविकास औद्योगिकप्रतिस्पर्धा च

एमओयू अन्तर्गतं उभौ पक्षौ विषयगतज्ञानस्य आदानप्रदानं, तकनीकीसहयोगं, परामर्शसेवानां प्रदानेन च उत्तरप्रदेशे सततआर्थिकविकासं, औद्योगिकप्रतिस्पर्धात्मकतां, डिजिटलपरिवर्तनं, आधुनिकअवसंरचनाविकासं च प्रवर्धयितुं संयुक्तरूपेण कार्यं करिष्यतः।

सहयोगस्य प्रमुखक्षेत्राणि

सम्झौतानुसारं उभौ पक्षौ अध्ययनयात्राः नेतृत्वप्रतिनिधिमण्डलानां विनिमयं च आयोजितुं संकल्पितवन्तौ। प्रशिक्षणकार्यक्रमाणां क्षमता-विकासयोजनानां च रूपरेखा निर्माय तस्याः क्रियान्वयनम् अपि करिष्यतः। एतेन जनानां कार्यकुशलता कौशलं च उन्नीयेताम्।

तदतिरिक्तं परामर्शमार्गदर्शनप्रदानम्, संयुक्तरूपेण तकनीकीसहयोगपरियोजनानां निर्माणं कार्यान्वयनं च, सार्वजनिकनिजीक्षेत्रयोः सम्बद्धव्यक्तीनां संस्थानां च सहयोगसंग्रहणम् अपि अस्य एमओयू अन्तर्गतं समाविष्टम् अस्ति।

आवश्यकतानुसारं विशिष्टपरियोजनानां कृते पृथक् लिखितसम्झौताः अपि क्रियन्ते, येषु कार्यक्षेत्रं समयसीमा वित्तीयप्रावधानानि च स्पष्टतया निर्दिश्यन्ते। द्विमासाभ्यन्तरे विस्तृतपरियोजनासम्झौतविषये वार्ता आरभ्यते, षण्मासाभ्यन्तरे तेषां अंतिमरूपदाने प्रयासः भविष्यति।

वैश्विकानुभवस्य लाभः

अस्याः साझेदारीयाः फलस्वरूपं उत्तरप्रदेशः सिंगापुरदेशस्य प्रशासनिकानुभवस्य, नगरीययोजनायाः, औद्योगिकसमूहविकासस्य, लॉजिस्टिक्सव्यवस्थायाः, डिजिटलशासनपद्धतेः च अनुभवस्य लाभं प्राप्स्यति।

एतत् समझौतं उत्तरप्रदेशस्य वैश्विकसहभागितायाः दीर्घकालिकदृष्टेः च दिशि महत्त्वपूर्णसफलता इति परिगण्यते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता