Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 24 फरवरीमासः (हि.स.)।
उपराष्ट्रपतिना सीपी राधाकृष्णनेन तथा गृहमन्त्रिणा सहकारितामन्त्रिणा च अमितशाहेन मङ्गलवासरे तमिलनाडुराज्यस्य पूर्वमुख्यमन्त्रिण्याः जयललितायाः अष्टसप्ततितमे जन्मदिवसे श्रद्धाञ्जलिः अर्पिता।
उपराष्ट्रपतिना राधाकृष्णनेन एक्स माध्यमे लिखितं यत् जयललिता करिश्मायुक्ता नेतृी आसीत्, या तमिलनाडुराज्यस्य राजनैतिकसामाजिकपरिदृश्ये अमिटां छापं न्यधात्। उल्लेखनीयेन दृढसंकल्पेन प्रशासनदक्षतया च सा महिलासशक्तीकरणाय, दरिद्रजनोद्धाराय, समावेशिविकासस्य सिद्धये च अनेकेषां कल्याणकारीयोजनानां नेतृत्वम् अकरोत्। तमिलनाडुराज्यस्य प्रगत्यै समृद्धये च तस्याः योगदानं राष्ट्रं सदा स्मरिष्यति, तस्याः विरासत् आगामिपीढीः प्रेरयिष्यति।
गृहमन्त्री अमितशाहः अपि एक्स माध्यमे उक्तवान् यत् दरिद्रकल्याणे महिलासशक्तीकरणे च तस्याः प्रतिबद्धता तमिलनाडुराज्यस्य विकासाय नूतनां दिशं दत्तवती। तया सुनिश्चितं यत् शासनस्य लाभः समाजस्य अन्तिमपुरुषं यावत् प्राप्नुयात्। जनसेवायाः प्रति तस्याः समर्पणं सदा प्रेरणास्रोतः भविष्यति।
उल्लेखनीयं यत् जयललिता, या अम्मा इति नाम्ना अपि प्रसिद्धा आसीत्, भारतीयाभिनेत्री राजनीतिज्ञा समाजसेविका च आसीत्। सा २४ फरवरी १९४८ तः ०५ दिसम्बर २०१६ पर्यन्तं जीविता। सा १९९१ तः २०१६ पर्यन्तं कालखण्डे षट्वारं तमिलनाडुराज्यस्य मुख्यमन्त्रिणी अभवत्, समग्रतया प्रायः चतुर्दशवर्षपर्यन्तं पदे आसीत्।
------------
हिन्दुस्थान समाचार