लखीमपुरे अद्य मुख्यमंत्री करिष्यति लवलीना बरगोहाईं खेल परिसरस्य उद्घाटनम्
लखीमपुरम् (असमः), 25 फरवरीमासः(हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ हिमन्त बिस्व शर्मा अद्य लखीमपुरे निर्मितस्य लवलीना बरगोहाईं क्रीडासंकुलस्य उद्घाटनं करिष्यति। प्रायः एकशतचत्वारिंशत्कोटिरूप्यकव्ययेन निर्मिते अस्मिन् क्रीडाङ्गणे विश्वस्तरीयप्रौद
Lovlina Borgohain Sports Complex in Lakhimpur.


लखीमपुरम् (असमः), 25 फरवरीमासः(हि.स.)।

असमराज्यस्य मुख्यमन्त्री डॉ हिमन्त बिस्व शर्मा अद्य लखीमपुरे निर्मितस्य लवलीना बरगोहाईं क्रीडासंकुलस्य उद्घाटनं करिष्यति।

प्रायः एकशतचत्वारिंशत्कोटिरूप्यकव्ययेन निर्मिते अस्मिन् क्रीडाङ्गणे विश्वस्तरीयप्रौद्योगिक्याः उपयोगः कृतः अस्ति। अस्य परिसरस्य अन्तः अत्याधुनिकक्रीडासुविधाः तथा आधुनिकमूलाधारसंरचना उपलभ्यते, येन अस्मिन् प्रदेशे क्रीडाक्रियाणां नवदिशा प्राप्तिः अपेक्ष्यते।

ओलम्पिकपदकविजेत्री लवलीना बरगोहाईं अपि उद्घाटनसमारोहे उपस्थितिः दास्यति। एतत् क्रीडाङ्गणं स्थानीयविधायकस्य मानव डेका इत्यस्य प्रयत्नैः सिद्धम् अस्ति, तथा असमराज्यस्य क्रीडामूलाधारसंरचनायाः कृते एतत् एकं महत्त्वपूर्णं उपलब्धिरूपेण मन्यते।

हिन्दुस्थान समाचार