Enter your Email Address to subscribe to our newsletters

निवेश रोड शोइति कार्यक्रमे मुख्यमंत्री योगी जापानस्य उद्यमिभ्योऽददात् उत्तरप्रदेशे निवेशितुं निमंत्रणम्।
लखनऊ/टोक्यो, 25 फरवरीमासः (हि.स.)।
विश्वस्य महान्तः निवेशकान् आमन्त्रयितुं उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः सिंगापुरदेशात् अनन्तरं जापानदेशस्य राजधानीं टोक्यो नगरं प्राप। तत्र आयोजिते वृहद् उत्तरप्रदेश निवेश मार्गदर्शनकार्यक्रमे सः तत्रस्थितान् उद्योगपतिनः निवेशकान् च उत्तरप्रदेशे निवेशं कर्तुं आमन्त्रितवान्। योगी आदित्यनाथः अवदत् यत् उत्तरप्रदेशः अद्य सुरक्षितपरिवेशेन, सुदृढाधारसंरचनया, विशालबाजारक्षमतया, युवा कार्यबलस्य उपलब्धतया च निवेशार्थं भारतस्य श्रेष्ठतमः राज्यः भूत्वा उदितः अस्ति।
मुख्यमन्त्री जापानीयउद्योगपतिभ्यः उत्तरप्रदेशं आगत्य निवेशं कर्तुं तथा आध्यात्मिकस्थलानां अनुभवम् अपि ग्राहयितुं आग्रहं कृतवान्। तेन विश्वासः व्यक्तः यत् उत्तरप्रदेशे निवेशेन भारतजापानयोः औद्योगिकसहकार्यं भविष्ये अधिकं सुदृढं भविष्यति।
भारतजापानयोः सांस्कृतिकसम्बन्धाः अपि तेन निर्दिष्टाः। जापानदेशं सूर्योदयभूमिः इति निर्दिश्य सः उक्तवान् यत् अस्याः पुण्यभूमेः नमस्कारं करोमि। उत्तरप्रदेशः सूर्यवंशीयराज्ञः श्रीरामस्य पावनजन्मभूमिः अस्ति। तथा भगवान् बुद्धस्य कर्मभूमिः अपि उत्तरप्रदेश एव अस्ति। कपिलवस्तु, सारनाथ, श्रावस्ती, कुशीनगर, कौशाम्बी इत्यादयः बुद्धसम्बद्धाः महत्त्वपूर्णाः स्थलाः उत्तरप्रदेशे एव सन्ति। अद्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे रामायणपरिपथः बौद्धपरिपथश्च प्रभावकरूपेण विकसितौ स्तः, येन आध्यात्मिकपर्यटनाय नूतना गतिः प्राप्ता। यदा श्रीरामस्य बुद्धस्य च चर्चा भवति तदा सा सूर्यवंशपरम्परायाः महती परम्परायाः स्मरणं जनयति, यस्याः प्रथमकिरणस्य उदयः जापानदेशे भवति। अस्यैव सांस्कृतिकसाम्यभावनया सर्वेभ्यः स्वागतं कृतम्।
निवेशकानां कृते उत्तरप्रदेशः महान् उपभोक्तृ-आपणः अस्ति। पञ्चविंशत्कोटिजनसंख्यायुक्तः उत्तरप्रदेशः देशस्य विशालतमः उपभोक्तृबाजारः अस्ति। यथा जनसंख्या विशालास्ति तथा एव आव्हानानि अपि, तथा एव अवसराः अपि विपुलाः सन्ति। गतनववर्षेषु राज्यस्य अर्थव्यवस्था प्रति व्यक्ति आयः च त्रिगुणितौ अभवताम्। यः राज्यः कदाचित् अविकसितः इति कथ्यते स्म, सः अद्य भारतस्य अर्थव्यवस्थायाः विकासयन्त्रं जातः। देशस्य केवलं एकादशप्रतिशतं कृषिभूमिः सति अपि उत्तरप्रदेशः एकविंशतिप्रतिशतं खाद्यान्नोत्पादनं करोति। अतः अन्नप्रसंस्करणे, पुटीकरणे, कृषिलोजिस्टिक्स् क्षेत्रे च महान्तः निवेशावसराः सन्ति।
जलसम्पदा युवा शक्ति च राज्यस्य बलम्। उत्तरप्रदेशे पर्याप्ता मधुरजलसम्पदा अस्ति, या कृषौ सह हरितहाइड्रोजन इत्यादिषु नूतनक्षेत्रेषु उपयोगी भवितुम् अर्हति। राज्यस्य षट्पञ्चाशत्प्रतिशतं जनसंख्या युवा अस्ति, येन उद्योगेभ्यः कुशलमानवसंसाधनं लभ्यते। गतवर्षेषु राज्ये शीघ्रं आधारसंरचना विकसिताऽस्ति। द्रुतमार्गजालं, देशस्य विशालतमं रेलजालं, पूर्वपश्चिमनियतवाहनमार्गयोः संगमस्थलं च उत्तरप्रदेशे अस्ति। द्रुतमार्गतीरेषु सप्तविंशतिः औद्योगिकसमूहाः विकसिताः भवन्ति। जापानीयव्यवसायनेतॄन् एतेषु परियोजनासु सहभागितां कर्तुं सः आमन्त्रितवान्।
यीडा क्षेत्रे पञ्चशतएकडभूमौ जापान औद्योगिकनगरं विकसितं भविष्यति इति अपि तेन उक्तम्। राज्ये षोडश विमानस्थलानि संचालितानि सन्ति, तेषु चत्वारि अन्तरराष्ट्रीयविमानस्थलानि सन्ति, नोएडा अन्ताराष्ट्रियविमानस्थलम् शीघ्रमेव आरभ्यते। तस्य समीपे जापानीयनिवेशकानां कृते जापान औद्योगिकनगरं निर्मीयते। पञ्चशतएकडभूमिः अस्मै कार्याय चिन्हिता अस्ति। एकस्मिन् स्थाने समूहस्वरूपेण निवेशस्य सुविधा प्रदास्यते, यत्र उत्तमसंयोजनं, परिवहनव्यवस्था, निर्यातसुविधाः च भविष्यन्ति।
मोबाइलनिर्माणात् अर्धचालकनिर्माणपर्यन्तं अवसराः उपलब्धाः सन्ति। उत्तरप्रदेशे निवेशः सुरक्षितः यतः अत्र परिमाणम्, कौशलम्, स्थैर्यम्, शीघ्रता च सर्वम् उपलब्धम्। भारतस्य मोबाइलनिर्माणस्य पञ्चपञ्चाशत्प्रतिशतं, इलेक्ट्रॉनिकघटकनिर्माणस्य षष्टिप्रतिशतं च उत्तरप्रदेशे भवति। दत्तांशकेन्द्रेषु, अर्धचालकनिर्माणे, भण्डारणे, पुनरुत्पाद्यऊर्जाक्षेत्रे च उत्तमाः अवसराः सन्ति। हाल एव नोएडा क्षेत्रे अर्धचालकएककस्य शिलान्यासः कृतः। राज्ये पञ्चसप्ततिसहस्रएकडभूमिः लण्ड्बैंक् रूपेण उपलब्धा अस्ति। झाँसीसमीपे बुन्देलखण्डप्रदेशे षट्पञ्चाशतिसहस्रएकडभूमौ नूतनं औद्योगिकनगरं विकसितं भवति।
उत्तरप्रदेशे षण्णवतिलक्षपरिमाणाः लघुमध्यमोद्यमाः कार्यरताः सन्ति, येषु त्रिकोट्यधिकजनाः रोजगारं प्राप्नुवन्ति। २०२३ वर्षे आयोजिते वैश्विकनिवेशकसम्मेलने चत्वारिंशल्लक्षकॊटिरूप्यकपरिमाणाः निवेशप्रस्तावाः प्राप्ताः। तेषु पञ्चदशलक्षकोटिरूप्यकपरियोजनाः भूमौ प्रवृत्ताः, सप्तलक्षकॊटिरूप्यकनिवेशः प्रक्रियायाम् अस्ति। नवीनोद्यमानां कृते सहस्रदिनपर्यन्तं बहुविधस्वीकृतिपत्रेभ्यः विमुक्तिः प्रदीयते।
राज्ये चतुस्त्रिंशतधिकाः क्षेत्रनीतयः प्रवर्तन्ते। निवेशमित्र निवेशसारथि इत्यादिसिंगलविण्डोव्यवस्थया निवेशप्रक्रिया सुलभा कृता। उत्तमकानूनव्यवस्था पारदर्शिनी नीतयः च कारणेन उत्तरप्रदेशः व्यवसायसुलभतायां अग्रणी राज्येषु गणितः। गतवर्षे एकशतषट्पञ्चाशत्कोटिपर्यटकाः राज्यं प्राप्तवन्तः, येन आतिथ्य, भोजनालय, धरोहरपर्यटन, आध्यात्मिकपर्यटनक्षेत्रेषु निवेशावसराः वर्धिताः। विद्युत् वाहनगतिशीलता, गभीरप्रौद्योगिकी, वित्तप्रौद्योगिकी, चिकित्साप्रौद्योगिकी, सेवाक्षेत्रेषु च अपि अवसराः सन्ति।
अस्मिन् कार्यक्रमे वित्तमन्त्री सुरेशकुमारखन्ना, औद्योगिकविकासमन्त्री नन्दगोपालगुप्तनन्दी, जापानदेशे भारतस्य राजदूता नगमा मलिक तथा बहवः जापानीयउद्योगप्रतिनिधयः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार