दिल्ल्याम् इंटरनेशनल फिल्म फेस्टिवल इत्येतत् 25 तः 31 मार्च यावत्
नवदिल्ली, 25 फरवरीमासः (हि.स.)। मुख्यमन्त्री रेखा गुप्ता बुधवासरे दिल्लीसचिवालये राजधानीनगर्यां प्रथमवारं आयोज्यमानस्य ‘इण्टरनेशनल् फिल्म् फेस्टिवल् दिल्ली २०२६’ इत्यस्य कर्टेनरेजर् प्रकाशितवती। अस्मिन् अवसरे पर्यटनमन्त्री कपिल मिश्रा अपि उपस्थित
दिल्ली सचिवालय में इंटरनेशनल फिल्म फेस्टिवल दिल्ली 2026 का कर्टेन रेजर करती मुख्यमंत्री रेखा गुप्ता


नवदिल्ली, 25 फरवरीमासः (हि.स.)।

मुख्यमन्त्री रेखा गुप्ता बुधवासरे दिल्लीसचिवालये राजधानीनगर्यां प्रथमवारं आयोज्यमानस्य ‘इण्टरनेशनल् फिल्म् फेस्टिवल् दिल्ली २०२६’ इत्यस्य कर्टेनरेजर् प्रकाशितवती। अस्मिन् अवसरे पर्यटनमन्त्री कपिल मिश्रा अपि उपस्थितः आसीत्।

मुख्यमन्त्री अवदत् यत् २५ मार्चतः ३१ मार्चपर्यन्तं आयोज्यमानः अयं नगरव्यापी चलचित्रमहोत्सवः भारतमण्डपम् सहितं नूतनदिल्लीस्थितेषु विविधेषु प्रतिष्ठितस्थलेषु भविष्यति। अयं आयोजनः दिल्लीं चलचित्रपर्यटनस्य, प्रतिभाविकासस्य, एवीजीसी उद्योगस्य, सृजनात्मकउद्योगस्य तथा रोजगारसृजनस्य नवानि अवसराणि प्रदास्यति। अस्मिन् चलचित्रमहोत्सवे १२५ अधिकाः भारतीयाः अन्तरराष्ट्रीयाश्च चलचित्राः प्रदर्शिताः भविष्यन्ति। तेन सह गाला प्रीमियर्, मास्टरक्लास्, उद्योगसंवादाः, कार्यशालाः तथा सांस्कृतिककार्यक्रमाः अपि आयोज्यन्ते।

मुख्यमन्त्री उक्तवती यत् दिल्लीसर्वकारस्य चलचित्रनीतेः अनुरूपं सिंगलविण्डो सुविधा, निर्माणसहायता तथा उद्योगसहयोगेन दिल्लीं चित्रग्रहणाय आकर्षकस्थानरूपेण निर्मीयते। अस्य महोत्सवस्य माध्यमेन दिल्लीं भारतस्य सिनेमानगर्याः रूपेण प्रतिष्ठापयितुं दृढं पदं निहितम् अस्ति। सा विश्वासं व्यक्तवती यत् अयं चलचित्रमहोत्सवः दिल्लीस्य सांस्कृतिकपरिदृश्यं नवां दिशां दास्यति तथा राजधानीं वैश्विकसांस्कृतिकमानचित्रे नूतनपरिचयं प्रदास्यति।

पर्यटनमन्त्री कपिलमिश्रः अवदत् यत् दिल्लीस्य एषः प्रथमः अन्तरराष्ट्रीयचलचित्रमहोत्सवः भविष्यति। अस्मिन् महोत्सवे देशविदेशस्थाः प्रतिष्ठिताः चलचित्रनिर्मातारः, कलाकाराः, निर्देशकाः तथा तकनीकीविशेषज्ञाः भागं गृह्णन्ति। अयं महोत्सवः न केवलं भारतीयसिनेमायाः विविधतां सृजनात्मकतां च वैश्विकमञ्चे प्रस्तोष्यति, अपि तु दिल्लीं सशक्तचलचित्रसांस्कृतिककेन्द्ररूपेण स्थापयितुं महत्त्वपूर्णं पदं भविष्यति। सः अवदत् यत् एषः आयोजनः युवप्रतिभाभ्यः अन्तरराष्ट्रीयमञ्चं प्रदास्यति, नूतनप्रौद्योगिकीं, नवाचारं तथा परिवर्तमाने सिनेमाक्षेत्रे सार्थकसंवादं प्रोत्साहयिष्यति। सहैव दिल्लीस्य सांस्कृतिकपरिचयं सुदृढं करिष्यति तथा पर्यटनं, जीविकां सृजनात्मकउद्योगांश्च नूतनऊर्जया संपोषयिष्यति।

-----------

हिन्दुस्थान समाचार