Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 25 फ़रवरीमासः (हि.स.)।
मुख्यनिर्वाचनायुक्तस्य ज्ञानेशकुमारस्य नेतृत्वे बुधवासरे पुदुचेरीनगरे निर्वाचनायोगस्य अधिकारिणां दलं मान्यताप्राप्तैः राष्ट्रियराज्यस्तरीयराजनीतिकदलप्रतिनिधिभिः सह महत्त्वपूर्णां बैठकां आयोजितवान्। अस्मिन् सत्रे राजनीतिकदलैः मतदानकेन्द्रेषु सुविधासुलभतायाः संवर्धनम्, निर्वाचनकाले धनबलस्य निःशुल्कवितरणस्य च निरोधार्थं कठोरपदानि स्वीकरणीयानि इति विविधाः मागाः प्रस्तुताः।
निर्वाचनायोगस्य प्रदत्तसूचनानुसारं अस्मिन् सभासत्रे मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः, निर्वाचनायुक्तौ डॉ सुखबीरसिंहसंधू तथा डॉ विवेकजोशी, पुदुचेरीप्रदेशस्य मुख्यनिर्वाचनाधिकारी तथा आयोगस्य वरिष्ठाधिकारिणः उपस्थिताः आसन्।
राष्ट्रियदलेषु भारतीयजनतापार्टी, कांग्रेसदलम्, आमआदमीपार्टी, बहुजनसमाजपार्टी तथा भारतीयकम्युनिस्टपार्टी मार्क्सवादी इत्येषां प्रतिनिधयः सहभागीभूताः। स्थानीयदलेषु अखिलभारतीयअन्नाद्रविडमुनेत्रकडगम्, ऑलइंडियाएनआरकांग्रेस तथा द्रविडमुनेत्रकडगम् इत्येषां प्रतिनिधयः अपि उपस्थिताः आसन्।
उपवेशने राजनीतिकदलैः पुदुचेरीनगरे मतदातासूच्याः विशेषगहनपुनरीक्षणं शान्तिपूर्वकं सुचारुरूपेण च सम्पन्नं जातम् इति निर्वाचनायोगस्य प्रशंसा कृता। तैः मतदानकेन्द्रेषु अधिकसुविधासुलभतायाः कृते सुझावाः अपि दत्ताः। निर्वाचनकाले धनबलस्य निःशुल्कवितरणस्य च निरोधार्थं कठोरपदानि स्वीकरणीयानि इति मागा कृता। अपरं सामाजिकमाध्यमस्य दुरुपयोगनिरोधार्थं प्रभाविनः उपायाः करणीयाः इति अपि प्रार्थना कृता।
---------------
हिन्दुस्थान समाचार