Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 25 फरवरीमासः (हि.स)।
प्रवर्तननिदेशालयेन कथितबैंककपटाचार तथा धनशोधनप्रकरणे रिलायन्ससमूहस्य अध्यक्षः अनिलअम्बानी विरुद्धं महती कार्यवाही कृता। केन्द्रीयअन्वेषणसंस्थया धनशोधननिवारणअधिनियम २००२ अन्तर्गतं मुम्बईनगरस्य अभिजातप्रदेशे स्थितं तस्य गृहम् ‘एबोड’ नामकं कुर्कीकृतम्, यस्य मूल्यं ३७१६ कोटिरूप्यकाणि अस्ति।
आधिकारिकस्रोतैः बुधवासरे सूचितं यत् रिलायन्ससमूहस्य अध्यक्षस्य अनिलअम्बानीस्य मुम्बईस्थितं गृहम् ‘एबोड’ प्रवर्तननिदेशालयेन कुर्कीकृतम्। केन्द्रीयअन्वेषणसंस्थया तस्य समूहस्य कम्पनी रिलायन्सकम्युनिकेशन्स द्वारा कथितबैंककपटाचारसम्बद्धप्रकरणे एतत् बहुमंजिलगृहं कुर्कीकृतम्। एषा कार्यवाही धनशोधननिवारणअधिनियम २००२ अन्तर्गतं कृता।
मुम्बईनगरस्य पालीहिलप्रदेशे स्थितं ६६ मीटर ऊर्ध्वं १७ तलयुक्तं एतत् भव्यगृहं अस्ति। कुर्कीकृतसंपत्तेः मूल्यं ३७१६ दशमलव ८३ कोटिरूप्यकाणि निर्दिष्टम्।
उपलब्धसूचनानुसारं अनिलअम्बानी पुनः द्वितीयवारं प्रश्नोत्तरार्थं प्रवर्तननिदेशालयस्य समक्षं उपस्थितुं शक्नोति। सः पूर्वं अगस्तमासे २०२५ वर्षे प्रथमवारं उपस्थितः भूत्वा धनशोधननिवारणअधिनियम अन्तर्गतं स्वीयं वक्तव्यं अभिलेखितवान्। अस्मिन् प्रकरणे केन्द्रीयअन्वेषणसंस्थया कुर्कीकृतसंपत्तीनां समग्रं मूल्यं अधुना प्रायः १५७०० कोटिरूप्यकाणि जातम्।
हिन्दुस्थान समाचार